________________
सह सम्बन्ध औदारिककामणबन्धनम् । पूर्वगृहीतर्वक्रियपुद्गलानां स्वरेव वक्रियपुगलगृह्यमाणः सह सम्बन्धो वैक्रियबन्धनं, तेषामेव वैक्रिय-| पुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैह्यमाणः पूर्वगृहीतैश्च सह सम्बन्धो वैक्रियतैजसबन्धनं, तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलगृहीतगृह्यमाणैश्च सह सम्बन्धो वक्रियकार्मणबन्धनम् । पूर्वगृहीतानामाहारकपुद्गलानां स्वैरेवाहारकपुद्गलगृह्यमाणः सह सम्बन्ध आहारकाहारकबन्धनं, तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलगृहीतगृह्यमाणैश्च सह सम्बन्ध आहारकतैजसबन्धनं, तेषामेवाहारकपुद्गलानां गृहीतानां गृह्यमाणानां च कार्मणपुद्गलगृह्यमाणहीतश्च सह सम्बन्ध आहारककामणबन्धनम्।औदारिकपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानां च गृहीतगृह्यमाणानां यो मिथःसम्बन्धस्तदौदारिकतैजसकामणबन्धनम् । एवं वैक्रियतैजसकार्मणाहारकतैजसकार्मणबन्धने अपि भावनीये । तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणः स्वैरेव तैजसपुद्गलैः सह सम्बन्धस्तैजसतजसबन्धनम् । तेषामेव गृहीतानां गृह्यमाणानां च तंजसपुद्गलानां कार्मणपुद्गलैगृह्यमाणहीतश्च सह सम्बन्धस्तैजसकामणबन्धनम् । कार्मणपुद्गलानां प्राग्गृहीतानां स्वरेव गृह्यमाणः कार्मणपुद्गलैः सह सम्बन्धः कार्मणकार्मणबन्धनम् । ननु ये पञ्च बन्धनानीच्छन्ति परपुद्गलसंयोगरूपस्य बन्धनस्य सतोऽप्यविवक्षणात्तन्मते सङ्घातनान्यपि पश्च संभवन्ति । ये तु पश्चदश बन्धनानीच्छन्ति तन्मते "नासंहतस्य बन्धनमिति” न्यायात्सङ्घातनान्यपि पञ्चदश प्राप्नुवन्तीत्युक्तसङ्ख्याविप्लव इति चेन्न, न हि तन्मते बन्धानु| गुणपुद्गलैकीकरणमात्रलक्षणं सङ्घातनं, किं त्वौदारिकादिरचनानुगुणपुद्गलकीकरणलक्षणमित्यदोषात् । तदेवमुक्ताः सर्वकर्मोत्तरप्रकृतयः । ___ अर्थतासां ध्रुवबन्धित्वध्रुवोदयत्वध्रुवसत्ताकत्वसर्वघातित्वपरावर्त्तमानत्वाशुभत्वैः सप्रतिपक्षः पुद्गलविपाकित्वभवविपाकित्वक्षेत्र| विपाकित्वजीवविपाकित्वभेदैः स्वानुदयबन्धिस्वोदयबन्ध्युभयवन्धिसमकव्यवच्छिद्यमानबन्धोदयक्रमव्यवच्छिद्यमानबन्धोदयोत्क्रम
GONDEGORIGONOM