SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः बन्धनकरणे वानपि याचमानोऽपि न ॥८॥ य, नवरं भोगोपभोगयोग्य विशेष प्रत्याख्यानादिपरिणामे कार्पण्यानो दत्तमस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तदानान्तरायम् । यदुदयादातुहे विद्यमानमपि देयं गुणवानपि याचमानोऽपि न लन्धनक लभते तल्लाभान्तरायम् । यदुदयाद्विशिष्टाहारादि प्राप्तावप्यसति च प्रत्याख्यानादिपरिणामे कार्पण्यान्नोत्सहते भोक्तुं तद्भोगान्तरायम्। मलादि एवमुपभोगान्तरायमपि भावनीयं, नवरं भोगोपभोगयोरयं विशेषः-सकृद्भुज्यत इति भोगः, पुनः पुनरुपभुज्यत इत्युपभोगः। यदु| दयात्सत्यपि नीरुजि शरीरे यौवनेऽपि वर्तमानोऽल्पप्राणो भवति तद्वीर्यान्तरायम् । | अत्र च पिण्डप्रकृतीनां पञ्चषष्टयाऽवान्तरभेदेखिनवतिर्नामकर्मप्रकृतयो भवन्ति । तत्र बन्धे उदये च बन्धनसंघातनानि स्वशरीरान्तर्ग| तान्येव विवक्ष्यन्ते, तथा च बन्धचिन्तायां नाम्नस्त्रिनवतेर्बन्धनपञ्चकसङ्घातनपश्चकवर्णादिषोडशकापनयनात् सप्तपष्टिः परिगृह्यते। मो| हनीये च सम्यक्त्वसम्यग्मिथ्यात्वे बन्धे नाधिक्रियेते, मिथ्यात्वपुद्गलानामेव सम्यक्त्वानुगुणविशोधिविशेषेण त्रिधा कृतानां शुद्धयद्धवि| शुद्धिसर्वाविशुद्धिभिः सम्यक्त्वसम्यग्मिथ्यात्वमिथ्यात्वव्यपदेशसंभवात् । ततो बन्धे विंशत्युत्तरं प्रकृतीनां शतं भवति । उदये च द्वाविंश शतमधिक्रियते सम्यक्त्वसम्यग्मिथ्यात्वयोरप्युदयसंभवात् । सत्तायां च पूर्वापनीतषड्विंशतिप्रकृतीनामपि ग्रहणादष्टचत्वारिंशं शतं ग्रन्थकारमते । गर्पिप्रभूतिमते च बन्धनपञ्चदशकग्रहणादष्टपञ्चाशं शतम् । अथ कथं पञ्चदश बन्धनानि भवन्तीति चेदुच्यते-औ| दारिकवक्रियाहारकाणां स्वकतैजसकार्मणः प्रत्येकं सहितानां नव बन्धनानि, तैजसकामणद्वययुक्तानां च तेषां त्रीणि, तैजसतैजसबन्धनं | तैजसकार्मणबन्धन कार्मणकार्मणबन्धनं चेति त्रीणि चेत्येवं पञ्चदश भवन्ति । तत्र पूर्वगृहीतानामौदारिकपुद्गलानामौदारिकपुद्गलेरेव | गृह्यमाणः सह यः सम्बन्धः सऔदारिकौदारिकबन्धनम् । तेषामेवौदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैद्यमाणैः पूर्व| गृहीतैश्च सह सम्बन्ध औदारिकतैजसबन्धनम् । तेषामेवौदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च ॥८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy