SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ all याजिहादीनां शरीरावयवानामस्थिरता । यदुदयात्राभेरुपरितना अवयवाः शुभा जायन्ते तच्छुभनाम । तद्विपरीतमशुभनाम, यदुदया-15 IPS नामेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति, तथाहि-शिरसा स्पृष्टस्तुष्यति मनुष्यः पादेन तु रुष्यति, कामिन्याः पादस्पर्शेनापि | च यस्तोषः स मोहनिबन्धनो न तु वास्तव इति न तेन व्याभिचारः। यदुदयाद्जीवस्वरः श्रोतृप्रीतिहेतुर्भवति तत्सुस्वरनाम । तद्विप(SIरीतं दुःस्वरनाम, यदुदयात्स्वरः श्रोतृणामप्रीतिहेतुर्भवति । यदुदयादनुपकृदपि सर्वस्य मनः प्रियो भवति तत्सुभगनाम । तद्विपरीतं | दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति । यच तीर्थकरोऽप्यभव्यानां द्वेष्यो भवति तत्र न तीर्थकरगतदुर्भगत्वं निमित्तं, | किं तु तद्गतमिथ्यात्वदोष एवेत्यवधेयम् । यदुदयाल्लोको यत्तदपि वचनं प्रमाणीकरोति दर्शनसमनन्तरमेव चाभ्युत्थानाद्याचरति तदादेयनाम । तद्विपरीतमनादेयनाम, यदुदयादुपपन्नमपि ब्रुवाणो नोपादेयवचनो भवति, नाप्यभ्युत्थानादियोग्यः । तपःशौर्यत्यागादिना सम्पार्जितेन यशसा कीर्तनं यशःकीर्तिः, यद्वा यशः सामान्येन ख्यातिः कीर्तिर्गुणोत्कीर्तनरूपा प्रशंसा, अथवा "एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः । दानपुण्यभवा कीर्तिः पराक्रमकृतं यशः ॥ १॥" ते यशःकिर्ती यदुदयाद्भवतस्तद्यशःकीर्तिनाम । | तद्विपरीतमयश-कीर्त्तिनाम, यदुदयान्मध्यस्थस्यापि जनस्याप्रशस्यो भवति । उक्ताः सप्रतिपक्षाः प्रत्येकप्रकृतयः। अत्र त्रसादयो दश प्रकृतयवसादिदशकं, स्थावरादयश्च दश स्थावरादिदशकमिति संज्ञा ग्राह्या । | गोत्रस्य द्वे उत्तरप्रकृती-उच्चैर्गोत्रं नीचर्गोत्रं च । यदुदयादुत्तमजातिकुलबलतपोरूपैश्वर्यश्रुतसत्काराभ्युत्थानासनप्रदानाजलिप्रग्रहादिसं| भवस्तदुच्चैर्गोत्रम् । यदुदयात् पुन नादिसंपन्नोऽपि निन्दा लभते हीनजात्यादिसंभवं च तन्नीचैर्गोत्रम् । अन्तरायस्य दानलाभभोगोपभोगवीर्यान्तरायभेदात् पञ्चोत्तरप्रकृतयः। तत्र यदुदयात् सति विभवे समागते च गुणवति पात्रे GHAREGAOOL
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy