________________
कर्मप्रकृतिः
बन्धनकरणे मालादि०
॥७॥
यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताराविमानरत्नौषधयस्तदुद्योतनाम । यदुदयाजन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्तिता भवति तन्निर्माणनाम सूत्रधारकल्पं, तदभावे हि तभृतककल्पैरङ्गोपाङ्गनामादिभिर्निवर्तितानामपि शिरउरउदरादीनां स्थानप्रवृत्तेरनियमः स्यात् । यदुदयादष्टमहापातिहार्याधतिशयाः प्रादुर्भवन्ति तत्तीर्थकरनाम । उक्ता अप्रतिपक्षाः प्रत्येकप्रकृतयः । अथ सप्रतिपक्षास्ता उच्यन्ते,ताश्च त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुस्वरसुभगादेययशाकीर्तयः स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुःस्वरदुर्भगानादेयायशःकीर्तिरूपप्रतिपक्षसहिता विंशतिः। तत्र वसन्त्युष्णाद्यभितप्ताः स्थानान्तरं गच्छन्तीति त्रसाः-द्वीन्द्रियादयः, तद्विपाकवेद्या कमप्रकृतिरपि त्रसनाम । तद्विपरीतं स्थावरनाम, यदुदयादुष्णाघभितापेऽपि स्थानपरिहारासमर्थाः पृथिव्यादयः स्थावरा भवन्ति । यदुदयाद् जीवानां चक्षुर्लाह्यशरीरत्वलक्षणं बादरत्वं भवति तद्वादरनाम, पृथिव्यादेरेकैकशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बादरत्वपरिणामविशेषादहूनां समुदाये चक्षुषा ग्रहणं भवति । तद्विपरीतं सूक्ष्मनाम, यदुदयादहूनां समुदितानामपि जन्तुशरीराणां चक्षुर्ग्राह्यता न भवति । | यदुदयात्स्वयोग्यपर्याप्तिनिवर्त्तनसमर्थो भवति तत्पर्याप्तनाम । तद्विपरीतमपर्याप्तनाम, यदयात्स्वयोग्यपर्याप्तिनिवर्तनसमर्थो न भवति ।
यदुदयात्प्रतिजीवं भिन्नशरीरमुपजायते तत् प्रत्येकनाम । ननु कपित्थाश्वत्थपीलुप्रभृतीनां मूलस्कन्धत्वक्छाखादयः प्रत्येकमसङ्ख्येयहजीवाः प्रवचने प्रोच्यन्ते, मूलादयश्च देवदत्तशरीरवदखण्डकशरीराकारा उपलभ्यन्त इति कथं तेषां प्रत्येकशरीरत्वं ? प्रतिजीवं शरी| रभेदाभावात् , इति चेन्मैवं, तन्मूलादिष्वसङ्ख्येयानामपि जीवानां भिन्नभिन्नशरीराभ्युपगमात् , केवलं श्लेषद्रव्यमिश्रितसकलसर्षपववित्मबलरागद्वेषोपचितविचित्रप्रत्येकनामकर्मपुद्गलोदयात्तेषां परस्परविमिश्रशरीरसंभवात् । यदुदयादनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम । यदुदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत् स्थिरनाम । तद्विपरीतमस्थिरनाम, यदुद
॥७॥