________________
यदुदयाज्जन्तूनां शरीरेषु तिक्तो रसो भवति यथा मरिचादीनां तत्तिक्तरसनाम । एवमग्रेऽपि भावनीयम् । “छुप स्पृश संस्पर्श"स्पृश्यते इति स्पर्शः, स च कर्कशमृदुलघुगुरुस्निग्धरूक्षशीतोष्णभेदादष्टप्रकारः, तमिबन्धनं नामाप्यष्टभेदम् । तत्र यदुदयाज्ज|न्तूनां शरीरेषु पाषाणादीनामिव कार्कश्यं भवति तत्कर्कशस्पर्शनाम । एवमग्रेऽपि भावनीयम् । विग्रहेण भवान्तरोत्पत्तिस्थान | गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाट्यानुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी, सा चतुर्धा-नरकगत्यानुपूर्वी तियग्गत्यानुपूर्वी मनुष्यगत्यानुपूर्वी देवगत्यानुपूर्वी चेति । विहायसा गतिविहायोगतिः, प्रथमप्रकृतिव्यवच्छेदाय विहायसेति | विशेषणं, सा प्रशस्ताऽप्रशस्ता च । (तत्र) प्रशस्ता हंसगजवृषभादीनां, अमशस्ता खरोष्ट्रमहिषादीनां, तद्विपाकवेद्यार कर्मप्रकृतिरपि द्विमकारा विहायोगतिः । उक्ताः पिण्डप्रकृतयः, एतासां चावान्तरभेदाः पञ्चषष्टिः । अथ प्रत्येकमकृतयो वक्तव्याः, ताश्च सप्रतिपक्षा अप्रतिपक्षाश्चेति द्विधा । तत्र पूर्वमल्पवक्तव्यत्वादप्रतिपक्षा उच्यन्ते, ताश्चागुरुलघूपधातपराघातोच्छ्वासातपोद्योतनिर्माणतीर्थकरनामभेदादष्ट । यदुदयात्प्राणिनां शरीराणि न गुरूणि न लघूनि नापि गुरुलघूनि किं त्वगुरुलघुपरिणामप| रिणतानि भवन्ति तदगुरुलघुनाम । यदुदयात्स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्दलंबकचौरदन्तादिमिर्जन्तुरुपहन्यते स्वयं कृतोद्वन्धन| भैरवप्रपातादिभिर्वा तदुपघातनाम । यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महासभागतः सभ्यानामपि त्रासमुत्पादयति प्रतिवादिनश्च प्रतिभा प्रतिहन्ति तत्पराघातनाम । यदुदयादुच्छ्वासनिःश्वासलब्धिरुपजायते तदुच्छ्वासनाम । यदुदयाजन्तुशरीराणि स्वरूपेणानुष्णान्यप्युष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तद्विपाकश्च भानुमण्डलगतभूकायिकेष्वेव, न बसो, प्रवचने निषेधात्, तत्रोष्णत्वमुष्णस्पर्शीद यादुत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिष्यत इति । यदुदयाजन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति |
HDDOGSEDROO