________________
कर्मप्रकृतिः
॥६॥
इDEOS
स्थीनि भवन्ति नित्यमेव स्नेहाभ्यङ्गादिरूपां सेवां प्रतीच्छन्ति वा तत्सेवा ख्यं षष्ठम् । एतनिबन्धनं संहनननामापि पोढा । संस्थानमा- बन्धनकरणे कारविशेषः, सङ्गहीतसङ्घातितबद्धेष्वौदारिकादिपुद्गलेषु यदुदयाद् भवति तत्संस्थाननाम, तच्च षोढा-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि
मङ्गलादि. कुब्जं वामनं हुंडं चेति । तत्र यदुदयात्समचतुरस्र संस्थानं स्यात्तत्समचतुरस्रसंस्थाननाम, एवमग्रेऽपि भावनीयम् । समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्भागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरस्रम् । नाभेरुपरि संपूर्णप्रमाणत्वादधस्त्वतथात्वादुपरिसंपूर्णप्रमाणाधोहीनन्यग्रोधवत्परिमंडलत्वं यस्य तन्न्यग्रोधपरिमंडलम् । आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागोगृह्यते, ततः सह आदिना नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, विशेषणान्यथानुपपत्त्या विशिष्टार्थलाभः। अपरेतु साचीति | पठन्ति, तत्र साचीति-समयविदः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरिभागस्तु न तथेति भावः । यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मडभंतत्कुब्जम, यत्र पुनरुरउदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्वामनम् । यत्र तु सर्वऽप्यवयवाः प्रमाणलक्षणात् परिभ्रष्टास्तत् हुंडम्। वर्ण्यतेऽलतियते शरीरमनेनेति वर्णः, स च पश्चधा-श्वेतपीतरक्तनीलकृष्णभेदात् , तन्नि-11 बन्धनं नामापि पञ्चधा। तत्र यदुदयाज्जन्तूनां शरीरे श्वेतवर्णः प्रादुर्भवेत् यथा बलाकादीनां तच्छ्वेतवर्णनाम, एवमग्रेऽपि भावनीयम्।
"वस्त गंध अदने "-गन्ध्यते आघ्रायते इति गन्धः, स द्विधा-सुरभिगन्धो दुरभिगन्धश्च, तनिबन्धनं नामापि द्विधा । तत्र यदुदया६ जन्तुनां शरीरेषु सुरभिगन्ध उपजायते यथा शतपत्रादीनां तत्सुरभिगन्धनाम, एतद्विपरीतं दुरभिगन्धनाम भावनीयम् । “रस आस्वा
दनस्नेहनयोः "-रस्यते आस्वाद्यते इति रसः, म च पञ्चधा-तिक्तकटुकषायाम्लमधुरभेदात, तन्निबन्धनं नामापि पञ्चधा । तत्र
REDD