________________
अङ्गोपाङ्गानि चाङ्गोपाङ्गानि चाङ्गोपाङ्गानि, “स्यादावमङ्खयेयः” (सि०३-१-११९) इत्येकशेपः, तन्निमित्तं काङ्गोपाङ्ग, तत्त्रि-12 राधा-औदारिकोपाङ्गं वैक्रियोपाङ्गमाहारकोपाङ्गं च । तत्र यदुदयवशादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुप22 जायते तदौदारिकोपाङ्गनाम । एवं वैक्रियाहारकोपाङ्गनाम्नी अपि भावनीये । तैजसकार्मणयोस्तु जीवप्रदेशसमानसंस्थानत्वान्नास्त्यङ्गो
पाङ्गसंभवः । बध्यतेऽनेनेति बन्धनं, यदुदयादौदारिकादिपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परमेकत्वमुपजायते काष्ठद्वयस्येव जतुसम्बन्धात् , तच्चौदारिकबन्धनादिभेदेन पञ्चप्रकारम् । सङ्घात्यन्ते गृहीत्वा पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्सङ्घातनं,तदप्योदारिकसङ्घातनादिभेदेन पश्चविधम् । 'अथ कोऽस्य व्यापारः पुद्गलसंहतिमात्रमिति चेन्न, पुद्गगलसंहतिमात्रस्य ग्रहणमात्रादेव सिद्धत्वात्
तत्र सङ्घातननामकर्मणोऽनुपयोगाद् , औदारिकादिशरीररचनाकारिसङ्घातविशेषस्तद्वयापार इति संप्रदायमतं, तदपि न, तन्तुसंहतेः पट N/ इबौदारिकादिवर्गणाप्रभवपुद्गलसंहतेरेबौदारिकशरीरादौ हेतुत्वात् तत्राधिकविशेषानाश्रयणादिति चेत् सत्यं, प्रतिनियतप्रमाणौदारिकादि| शरीररचनार्थ संहतिविशेषस्यावश्याश्रयणीयत्वात्तन्निमित्ततारतम्यभागितया सङ्घातननामकर्मसिद्धिरिति संप्रदायाभिप्रायस्यैव युक्तत्वात् ।
संहननं नामास्थिरचनाविशेषः, तत् पोढा-वज्रर्षभनाराचं, ऋषभनाराचं, नाराचं, अर्द्धनाराचं, कीलिका, सेवात च । तत्र वज्र कीलिका, | ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः, ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यवज्रनामकमस्थि यत्र भवति तद्ववर्षभनाराचसंज्ञमायं संहननं, यत्पुनः कीलिकारहितं तदृषभना
राचं द्वितीयं, यत्ररथ्नोमर्कटबन्ध एव केवलस्तन्नाराचसंज्ञं तृतीयं, यत्र पुनरेकपाधै मर्कटवन्धो द्वितीयपार्श्वे च कीलिकाबन्धस्तदर्द्धना. Vाराचं चतुर्थ, यत्रस्थीनि कीलिकामात्र बद्धान्येव भवन्ति तत्कीलिकाख्यं पञ्चमं, यत्र पुनः परस्परं पर्यन्तस्पर्शमात्रलक्षणां सेवामागतान्य