________________
पन्धनकरणे मालादि०
कर्मप्रकृतिः तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः,साऽपि चतुर्दा।एकेन्द्रियादीनामेकेन्द्रियादिशब्दप्रवृत्तिनिवन्धनं तथाविधसमानपरिणतिलक्षणं सामान्य-
जातिः, तद्विपाकवेद्या कर्मप्रकृतिरपि जातिः। अयमत्र पूर्वसूरीणामभिप्रायः-द्रव्यरूपमिन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामथ्योत्सिद्ध, ME भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात्, "क्षायोपशमिकानीन्द्रियाणीति" वचनात्, यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिमित्र| सामान्यं तदन्यासाध्यत्वाजातिनामनिवन्धनमिति । अत्र कश्चिदाह-'शब्दप्रवृत्तिनिमित्ततया न जातिसिद्धिः, अन्यथा हर्यादिपदप्रवृत्तिनिमित्ततया हरित्वादिकमपि जातिः सिद्धयेत , ततः एकेन्द्रियादिव्यवहार उपाधिविषय एवास्त्विति कृतं जातिनाम्ना । यदि चैवमप्येकेन्द्रियादिव्यवहारहेतुतयैकेन्द्रियत्वादिजातिरभ्युपगम्यते तदा नारकत्वादिकमपि नारकादिव्यवहारनिमित्तपञ्चेन्द्रियत्वादिव्याप्या जातिरेवा. स्त्विति कृतं गतिनाम्नेति' । तत्र मः-अपकृष्टचैतन्यादिनियामकतयैकेन्द्रियत्वादिजातिसिद्धिस्तदेव चैकेन्द्रियादिव्यवहारनिमित्तं लाघवात्तन्निबन्धनतया च जातिनामसिद्धिः । नारकत्वादिकंच न जातिरूपं, तिर्यक्त्वस्य पश्चेन्द्रियत्वादिना साङ्कर्यात् , किं तु सुखदुःखविशेषोपभोगनियामकपरिणामविशेषरूपं तन्निबन्धनतया च गतिनामसिद्धिरिति कृतं प्रसङ्गेन । जातिः पञ्चधा-एकेन्द्रियजातिीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजातिः पश्चेन्द्रियजातिरिति, तद्विपाकवेद्यं जातिनामकर्मापि पञ्चधा। शीर्यत इति शरीरं, तच्च पश्चधा-औदारिक | वैक्रियमाहारकं तैजसं कार्मणं च । एतद्विपाकवेद्यं कर्मापि शरीरनाम पञ्चधा । तत्र यदुदयादौदारिकशरीरयोग्यान् पुद्गलानादायौदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशः सहान्योऽन्यानुगमरूपतया संबन्धयति तदौदारिकशरीरनाम, एवं शेषशरीरनामान्यपि भावनीयानि । अङ्गान्यष्टौ शिरःप्रभृतीनि । उक्तं च-"सिसमुरोयरपिट्टी दो बाह ऊरुया य अटुंगा"। तदवयव. भूतान्यङ्गुल्यादीन्युपाङ्गानि । शेषाणि तु तत्प्रत्यवयवभूतान्यगुलिपर्वरेखादीन्यङ्गोपाङ्गानि । ततोऽङ्गानि चोपाङ्गानि चाङगोपाङ्गानि,
ORGOTIPORD
॥५॥