SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ महचारिण महानिनो ये ते नोकपायाः, कैः कपायरिति चेदायादशभिः। तथाहि-नायेषु द्वादशसु कपायेषु क्षीणेषु नोकपाया अवतिष्टन्ते, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तेः । यद्वैते समुज्जम्भमाणा अवश्यं कषायानुद्दीपयन्ति ततः कषायसहचापरिणः । उक्तं च-"कायसहवर्त्तित्वात्कपायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता ॥ १ ॥ " ते च नोकषाया नव-वेद| त्रिकं हास्यादिषट्कं च । तत्र वेदत्रिकं स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च । नत्र यददये स्त्रियाः पुंस्यभिलापः पित्तोदये मधुराभिलापवत्स स्त्रीवेदः, यदुदयात्पुंसः खियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत्म पुरुषवेदः, यदयात्स्त्रीपुंसयोरुपयभिलाषः पित्तश्लेष्मोदये मजिका| भिलाषवत्स नपुंसकवेदः । हास्यादिषट्रकं-हास्यरत्यरतिभयशोकजुगुप्सालक्षणम् । तत्र यदुदयात्मनिमित्तमनिमित्तं वा हसति तद्धास्यमो-| हनीयं, यदुदयावाह्याभ्यन्तरेषु वस्तुषु प्रीतिस्तद्रतिमोहनीयं, यदुदयात्तेष्वप्रीतिस्तदरतिमोहनीय, प्रीत्यप्रीती सातासातात्मके एवेति 0/ वेदनीयकर्मणैवानयोरन्यथासिद्धिरिति नाशङ्कनीय,तदुपनीतसुखदुःखहेतुसंनिधानेऽपि चित्तान्यथाभावस्यैतद्व्यापारत्वात, यदुदयात् प्रिय. | विप्रयोगादावाक्रन्दति भूपीठे लुठति दीर्घ निःश्वसिति तच्छोकमोहनीयं, यदुदयात्सनिमित्तमनिमित्तं वा स्वसङ्कल्पतो बिभेति तद्भ| यमोहनीयं, यदुदयाच्छुभमशुभं वा वस्तु जुगुप्सते तज्जुगुप्सामोहनीयम् । एते पोडश कषाया नव च नोकषायाधारित्रमोहसंज्ञाः। सुरायुनरायुस्तिर्यगायुर्निरयायुश्चेति चतंत्र आयुषः प्रकृतयः। चतुर्दशपिण्डप्रकृतयोऽष्टाऽप्रतिपक्षाः प्रत्येकप्रकृतयवसाद्या दश च सप्रतिपक्षा विंशतिरिति द्विचत्वारिंशन्नामकर्मप्रकृतयः। तत्र गतिजातिशरीराङ्गोपाङ्गबन्धनसङ्घातनसंहननसंस्थानवर्णगन्धरसस्पर्शानुपूर्वीविहायोगतयश्चतुर्दशपिण्डप्रकृतयः,पिण्डत्वमवान्तरमेदयुक्तत्वम् । तत्र गम्यते-तथाविधकर्मसचिवै वैः प्राप्यते इति गतिः, नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्च,
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy