________________
REGARDINDAL
ल्पबहुत्वमुच्यते-तत्रापवर्तनायां जघन्यो निक्षेपः सर्वस्तीकः, तस्य समयाधिकावलिकात्रिभागप्रमाणत्वात् । ततोऽपि जघन्यातीत्थापना | द्विगुणा त्रिसमयोना । त्रिसमयोनद्विगुणत्वं कथमवसेयमिति चेद् , उच्यते-व्याघातमन्तरेण जघन्यातीत्थापनाऽऽवलिकात्रिभागद्वयं | समयोनं भवति । आवलिका चासत्कल्पनया त्रिंशत्समयप्रमाणा कल्प्यते । ततत्रिभागद्वयमेकस्थानीयं समयोनमेकोनविंशतिसमय
प्रमाणम् । निक्षपोऽपि जघन्यः समयाधिकावलिकात्रिभागरूपोऽसत्कल्पनया एकादशसमयप्रमाणः । द्विगुणीकृतखिसमयोन एतावानेव | भवतीति । ततोऽपि व्याघातं विनोत्कृष्टाऽतीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । ततो व्याघाते उत्कृष्टातीत्थापनाऽसङ्खयेयगुणा, तस्याः किश्चिदूनडायस्थितिकण्डकप्रमाणत्वात् । ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकावलिकाद्विकोनसकलकर्मस्थितिप्रमाणत्वात् । ततः सर्वा कर्मस्थितिर्विशेषाधिका । सम्प्रत्युद्वर्तनापवर्तनयोः संयोगेनाल्पबहुत्वमुच्यते-तत्रोद्वर्त्तनायां | जघन्यातीत्थापनानिक्षेपो व्याघातभाविनौ सर्वस्तोको, स्वस्थाने तु परस्परं तुल्यौ, आवलिकाया असङ्खयेयभागमात्रत्वात् । ततोऽप- | वर्तनायां जघन्यो निक्षेपोऽसङ्खयेयगुणः, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽप्यपवर्त्तनायामेव जघन्यातीत्थापना द्विगुणा | त्रिसमयोना । अत्र भावना कृतैव । ततोऽप्यपवर्तनायामेव व्याघाताभावभाविन्युत्कृष्टातीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । तत उद्वर्तनायामुत्कृष्टातीत्थापना सङ्खयेयगुणा, तस्या उत्कृष्टावाधारूपत्वात् । ततोऽपवर्त्तनायां व्याघाते उत्कृष्टातीस्थापनाऽसङ्खयेयगुणा, तस्याः किश्चिद्नडायस्थितिप्रमाणत्वात् । तत उद्वर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽप्यपवर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वा स्थितिर्विशेषाधिका ॥ ६॥
రూంటూంటూ