SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ||१४९|| RS वस्थाने तु परस्परं तुल्यौ, आवलिकाऽसंख्येयभागमात्रत्वात् । ततोऽपवर्तनायां जघन्यो निक्षेपोऽसंख्येयगुणः, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽप्यपवर्तनायामेव जघन्यातीत्थापना द्विगुणा त्रिसमयोना । अत्र भावना प्रागेव कृता । ततोऽप्यपवर्त- 10 उद्वर्तनाऽनायामेव व्याघातं विनोत्कृष्टाऽतीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । तत उर्तनायामुकुष्टातीत्थापना संख्ये पवर्तना करणे । यगुणा, तस्या उत्कृष्टाबाधारूपत्वात् । ततोऽपवर्तनायां व्याघाते उत्कृष्टाऽतीत्थापनाऽसंख्येयगुणा, तस्याः किंचिद्नडायस्थितिप्रमाणत्वात् । तत उद्वर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽप्यपवर्तनायाभुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वा स्थितिर्विशेपाधिका ॥६॥ | (उ०) एष निर्व्याघातेऽपर्तनाविधिरुक्तः,अथ व्याघाते तमाह-अत्र व्याघातो नाम स्थितिघातः । उक्तं च-"ठिइघाओ एत्थ होइ | वाघाओ"। तस्मिन् क्रियमाणे सति समयोनं कण्डकमात्रमुत्कृष्टातीत्थापना । उपरितनेन समयमात्रेण स्थितिस्थानेनापवर्त्यमानेन सहाधस्तात्कण्डकमतिक्रम्यते ततस्तेन विना समयोनं कण्डकमेवोत्कृष्टातीत्थापना भवतीति । कण्डकमानं किमिति चेद् , उच्यते-यस्याः स्थितेरारभ्य तस्या एव प्रकृतेरुत्कृष्टस्थितिबन्ध उत्प्लुत्य विधीयते ततः प्रभृति सर्वाऽपि स्थितिर्खायस्थितिरिति परिभाष्यते । सा | किश्चिदूना स्थितिः कण्डकस्योत्कृष्ट प्रमाणम् । पञ्चसंग्रहटीकायां त्वेवं व्याख्यातम्-"डायस्थितिरुत्कर्षतः किश्चिदूना-किश्चिदूनकर्मप्रमाणा । तथाहि-अन्तःकोटाकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंक्षिपञ्चेन्द्रिय उत्कृष्टसंक्लेशवशादुत्कृष्टां स्थिति विधत्त इति सा डा |||१४९|| | यस्थितिः किश्चिदूनकर्मस्थितिप्रमाणा कण्डकस्योत्कृष्ट प्रमाणमिति” । एतचोत्कृष्टं कण्डकमेकद्वयादिसमयन्यूनमपि कण्डकमुच्यते । एवं हीयमानं यावत्पल्योपमासङ्ख्येयभागमात्रप्रमाणं भवति तजघन्यकण्डकम् । इदमेव समयोनं जघन्या व्याघातेऽतीत्थापना । सम्प्रत्य HIROICE CGeet
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy