SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ KI मलटीकायां-यस्याः स्थितेरारभ्योत्कृष्टं स्थितिबन्धं विधत्त-निर्मापयति तस्या आरभ्योपरितनानि सर्वाण्यपि स्थितिस्थानानि डा || | यस्थितिसंज्ञानि भवन्ति " । सा डायस्थितिः किंचिद्ना कण्डकस्योत्कृष्ट प्रमाणम् । पञ्चसंग्रहे पुनरेवं मूलटीकाकृता व्याख्या कृता१"सा डायस्थितिरुत्कर्षतः किंचिदूना-किंचिदूनकर्मस्थितिप्रमाणा । तथाहि-अन्तःकोटीकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंक्षिप चेन्द्रिय उत्कृष्टसंक्शवशादुकां स्थिति विधत्तं इति सा डायस्थितिः किंचिदूनकर्मस्थितिप्रमाणा कण्डकस्योत्कृष्ट प्रमाणमिति” । | एतच्चोत्कृष्टं कण्डकं समयमात्रेणापि न्यूनं कण्डकमुच्यते । एवं समयद्वयेन समयत्रयेण एवं तावन्न्युनं वाच्यं यावत्पल्योपमासंख्येयभाग-| 12 मात्रप्रमाणं भवति, तच जघन्य कण्डकम् । इदं च समयोनं जघन्या व्याघातेऽतीत्थापना । संप्रत्यल्पबहुत्वमुच्यते-तत्रापवर्तनायां । जघन्यो निक्षेपः सर्वस्तोकः, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽपि जघन्यातीत्थापना द्विगुणा त्रिसमयोना । कथं त्रिसमयोनं द्विगुणत्वमिति चेद् ,उच्यते व्याघातमन्तरेण जघन्याऽतीत्थापना आवलिकात्रिभागद्वयं समयोनं भवति । आवलिका चास- | कल्पनया नवसमयप्रमाणा कल्प्यते । ततस्विभागद्वयं समयोनं पश्चसमयप्रमागमवगन्तव्यम् । निक्षेपोऽपि जघन्थः समयाधिकावलिकात्रिभागरूपोऽसत्कल्पनया चतु:समयप्रमाणो द्विगुणीकृतस्विसमयोनः सन् एतावानेव भवतीति । ततोऽपि व्याघातं विनोत्कृष्टाऽती-| स्थापना विशेषाधिका, तस्याः परिपूर्णावलिकामात्रत्वात् । ततो व्याघाते उत्कृष्टाऽतीत्थापनाऽसंख्येयगुणा, किश्चिदूनडायस्थितिप्रमाणत्वात्तस्याः । ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकाबलिकाद्विकोनसकलकर्मस्थितिप्रमाणत्वात् । ततः सर्वा कर्मस्थितिविशेषाधिका । संप्रत्युद्वर्तनापवर्तनयोः संयोगेनाल्पबहुत्वमुच्यते-तत्रोद्वर्तनाया व्याघाते जघन्यातीत्थापनानिक्षेपौ सर्वस्तोको, १ पञ्चसंग्रहस्वोपशटीका, उद्धर्तनाकरणे गा० १५ SHORSEE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy