________________
||१४७॥
पवर्तना करणे ।
य मोत्तु निक्खेवो । कम्मठिई बंधोदयआवलिया मोत्तु ओवट्टे ॥३॥" कर्मस्थिति बन्धावलिकामुदयावलिकां च मुक्त्वा शेषां सर्वामपि कर्मप्रकृतिः अपवर्तयतीत्यर्थः । तदेवमुदयावलिकाया उपरितनं समयमात्र स्थितिस्थानं प्रतीत्य प्रवर्तमानायामपवर्तनायां समयाधिकावलिकात्रिभागो | उद्वर्तना
1 निक्षेपः प्राप्यते, स च सर्वजघन्यः, सर्वोपरितनं च स्थितिस्थानं प्रतीत्य प्रवर्तमानायामपवर्तनायां यथोक्तरूप उत्कृष्टो निक्षेपः। 10 ऊक्तं च-"उदयावलिमुपरित्थं ठाणं अहिगिच्च होइ अइहीणो। निक्खेवो सब्वोवरि ठिइठाणवसा भवे परमो" ॥४-५॥ शि (उ०)-तदेवमुक्ता स्थित्युदर्तना, अथ स्थित्यपवर्तनामाह-स्थितिमपवर्तयन्नुदयावलिकाया बाह्यान् स्थितिविशेषान-समयमात्रद्वि
समयमात्रादिस्थितिभेदानपवर्त्तयति। ते चापवर्त्यमानाः स्थितिविशेषास्तावल्लभ्यन्ते यावद्वन्धारलिकोदयावलिकाहीना सर्वा कर्मस्थितिः।। तानपवर्त्यमानान् स्थितिविशेषान् कुत्र निक्षिपति ? इत्याह-निक्षिपत्यावलिकायास्त्रिभागे-तृतीये भागे समयाधिके, शेषं समयोनमुपरितनं त्रिभागद्वयमतिक्रम्य । अयमिह भावार्थः-उदयावलिकाया उपरितनी या समयमात्रा स्थितिस्तस्या दलिकमपवर्तयन्नुदयावलिकाया
उपरितनी द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये भागे निक्षिपति, एप जघन्यो निक्षेपो जधन्या चातीत्थापना । ४ायदा चोदयावलिकाया उपरितनी द्वितीया स्थितिरपवर्त्यते तदातीत्थापना प्रागुक्तप्रमाणा समयाधिका भवति, निक्षेपस्तु तावन्मात्र
एव । यदा तूदयावलिकाया उपरितनी तृतीया स्थितिरपवयते तदा प्रागुक्तमानातित्थापना द्विसमयाधिका भवति-द्वौ त्रिभागौ समयाधिकावतीत्थापना भवतीत्यर्थः, निक्षेपस्तु तावानेव । एवमतीत्थापना प्रतिसमयं तावद्वर्धयितव्या यावदावलिका परिपूर्यते । निक्षेपविषयाणां च स्थितीनां समयाधिकआवलिकात्रिभाग एवानुवर्तते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवर्तते, निक्षेपस्तु वर्धते |||१४७||
१ पं० सं० उद्व०करणे गा० १२ ।
GRORRORISSDEOM
GSIDDESSDIS