SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ (मलय०)-तदेवमुक्ता स्थित्युद्वर्तना, संप्रति स्थित्यपवर्तनामाह-'उबटुंतो'त्ति-स्थितिमपवर्तयन् उदयावलिकाया बाह्यान् स्थिति-18 विशेषान-स्थितिभेदानपवर्तयति । के ते स्थितिविशेषा ? इति चेत् , उच्यते-उदयावलिकाया उपरि समयमात्रा स्थितिः, द्विसमयमात्रा, तावद्वाच्यं यावद्धन्धावलिकोदयावलिकाहीना सर्वा कर्मस्थितिः । एते स्थितिविशेषाः । उदयावलिकायां गता च स्थितिः सकलकरणायोग्येति कृत्वा तां नापवर्तयति तत उक्तं 'उदयावलिकाबाद्यानिति । कुत्र निक्षिपति? इति चेदत आह-निक्षिपति आवलिकायात्रिभागेतृतीये भागे समयाधिके शेषं समयोनमुपरितनं त्रिभागद्वयमतिक्रम्य । इयमत्र भावना-उदयावलिकाया उपरितनी या स्थितिस्तस्याः | दलिकमपवर्तयन् उदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये भागे निक्षिपति । एष जघन्यो निक्षेपः, जघन्या चातीत्थापना । यदोदयावलिकाया उपरितनी द्वितीया स्थितिरपवयते तदाऽतीत्थापना प्रागुक्तप्रमाणा समया|धिका भवति, निक्षेपस्तु तावन्मात्र एव । यदा तूदयावलिका उपरितनी तृतीया स्थितिरपवर्त्यते तदाऽतीत्थापना प्रागुक्तप्रमाणा द्विसमयाधिका भवति, निक्षेपस्तु तावन्मात्र एव । एवमतीत्थापना पतिसमयं तावद्धृद्धिमुपनेतव्या यावदावलिका परिपूर्णा भवति । ततः परमतीत्थापना सर्वत्रापि तावन्मात्रैव भवति, निक्षेपस्तु वर्धते, स च तावद्यावद्धन्धावलिकातीत्थापनावलिकारहिता अपवर्त्यमान६ स्थितिरहिता च सकलापि कर्मस्थितिः । तथाहि-बन्धावलिकायामतीतायां सत्यां कर्मापवर्तयितुमारभते । तत्रापि च यदा सर्वोपरि-1 तनं स्थितिस्थानमपवर्तयति तदावलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेषु निक्षिपति । तस्मादुत्कृष्टो निक्षेपोऽपव य॑मानस्थितिसमयरहिता बन्धावलिकातीत्थापनावलिकारहिता च सर्वापि कर्मस्थितिः । उक्तं च-"समयाहिअइत्थवणा बंधावलिया १ पञ्चसंग्रहः उद्वर्तनाकरणे गा० १३
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy