SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ | वलिकाया असङ्ख्येयतमेनापि भागेनाभ्यधिकेऽभिनवकर्मबन्धे द्रष्टव्यम् । यदा पुनर्द्वाभ्यामावलिकाया असङ्ख्येयतमाभ्यां भागाभ्यामधिको नूतनः कर्मबन्धो जायते तदा प्राक्तनसत्कर्मणोऽन्त्यस्थितिरुद्वर्त्यते, उद्वय चावलिकाया आद्यमसङ्कथेयभागमतिक्रम्य द्वितीयेसङ्घयेयतमे भागे निक्षिप्यते । एतावतीत्थापनानिक्षेपौ जघन्यौ । यदा तु समयाधिकाभ्यां द्वाभ्यामावलिकाया असङ्ख्येयतमाभ्यां । भागाभ्यामधिकोऽभिनवकर्मबन्धस्तदावलिकायाः प्रथममसङ्ख्येयतमं भागं समयाधिकमतिक्रम्य द्वितीयेऽसङ्ख्येयतमे भागे निक्षिप्यते । एवमभिनवकर्मबन्धस्य समयादिवृद्धावतीत्थापना प्रवर्धते सा च तावद्यावदावलिका परिपूर्णा भवति, निक्षेपस्त्वेतावत्यतीत्थापनाविधौ तावन्मात्र एव भवति । तत ऊर्ध्वं पुनरपि नवकर्मबन्धवृद्धौ निक्षेप एव केवलो वर्धते, नातीत्थापना । उक्तं च- " " आवलिदोसंखंसा जर वढर अहिणवो उठिहबंधो। उब्बट्टइ तो चरमा एव जावलिया अइत्थवणा ||१|| अइत्थावणालिआए पुण्णाप, वड्ढइ ति णिखेवो! यावच्चाभिनवकर्मबन्धः प्राक्तनस्थितिसत्कर्मणः सकाशादावलिकाया असङ्ख्ये यतमभागाभ्यां द्वाभ्यामधिको न भवति, तावत्प्राक्तनसत्कर्मणश्वरमस्थितेरध आवलिकामसङ्घयेय भागाधिकामुल्लङ्घन्य ततोऽधस्तनीरेव स्थितीरुद्वर्त्तयति । तत्राप्यसङ्ख्येय भागाधिकामावलिकामतिक्रम्य तदनन्तरमेवाधस्तनीं स्थितिमुद्वर्त्तयन्नावलिकामतिक्रम्योपरितने आवलिकाया असङ्घयेयतमे भागे निक्षिपति, द्वितीयां चाधस्तनीं स्थितिमुद्वर्त्तयन् समयाधिकेऽसङ्ख्येयतमे भागे निक्षिपतीत्येवंप्रकारेण भावनीयम् । अल्पबहुत्वमुच्यते - सर्वस्तोको जघन्यातीस्थापनाजघन्य निक्षेपौ, मिथश्च तुल्यौ, द्वयोरप्यावलिकासत्कासमभागमात्रत्वात् । ताभ्यामुत्कृष्टातीत्थापनाऽसङ्घयेयगुणा, तस्या | उत्कृष्टाबाधारूपत्वात् । ततोऽप्युत्कृष्टो निक्षेपोऽसङ्घयेयगुणः, समयाधिकयाssवलिकयाऽबाधया च हीना या सर्वकर्मस्थितिस्तत्प्रमाणत्वात् । ततोऽपि सर्वा कर्मस्थितिर्विशेषाधिका, उत्कृष्टनिक्षेपान्न्यूनीकृतस्थितेः पूरणात् ॥ ३ ॥ १ पं० सं० उ० करणे गा० ७
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy