SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४१॥ उदयावलिकान्तर्गता अप्युदर्तनीयाः प्राप्नुवन्तीति प्रतिषिध्यन्ते ॥ १ ॥ (उ०)- अथोद्देशक्रमेणोद्वर्त्तनापवर्त्तने वक्तुमवसरप्राप्ते । ते च द्वे अपि स्थित्यनुभागविषये । तत्र प्रथमतः स्थितेरुद्वर्त्तनामाह-स्थितेरुद्वर्त्त| नोदयावलिकाया वाह्यानां स्थितीनां ज्ञेया, उदद्यावलिकायाः सकलकरणायोग्यत्वेन प्रतिषेधात् । अपि च बध्यमानप्रकृतेरखाधायास्तुल्या हीना वा पूर्ववद्धप्रकृतीनां स्थितिनोंर्त्तनीया - सोत्पाट्य तत ऊर्ध्वं बध्यमानप्रकृतेरबाधाया उपरि न निक्षिप्यत इत्यर्थः, अबाधाकालान्तः प्रविष्टत्वात् । या पुनरबाधाकालादुपरितनी सा स्थितिपर्यन्तमुद्वर्त्यत एव । तदेवमबाधान्तः प्रविष्टाः सर्वा अपि स्थितय ऊर्ध्वमु द्वर्त्तनामधिकृत्यातिक्रमणीया भवन्ति - त्याज्या भवन्तीत्यर्थः । अतिक्रमणीयस्थितिप्रमाणमाह-भवत्यबाधाऽतीत्थापना - अतिक्रमणीये| त्यर्थः । तथा चाबाधान्तर्गतं कर्मद लिकं नोद्वर्त्तनायोग्यं किंवबाधायाः परत एवेति । यैवोत्कृष्टाऽबाधा सैवोत्कृष्टाऽती स्थापनेति । तत एकादिसमय हीनयाऽबाधया हीनहीनतराऽतीत्थापना तावद्वाच्या यावज्जघन्याऽवाधान्तर्मुहूर्त्तप्रमाणा जघन्याती स्थापना । ततोऽपि जघन्यतरातीस्थापना यावदावलिका नामोदयावलिका तावद्वाच्या, उदद्यावलिकान्तर्गतानां स्थितीनामनुद्वर्त्तनीयत्वप्रतिपादनात् । ननु 'आधा उकड्ढद्द' ति वचनाद्वन्धे सत्येवोद्वर्त्तना प्रवर्तिष्यते, तत उदद्यावलिकागताः स्थितयोऽवाधान्तर्गतत्वेनैव नोद्वर्तिष्यन्ते, किं तासां पृथग्ग्रहणेन ? मैवम्, अबाधान्तर्गतानां स्थितीनामबाधाया उपयेवोत्पाट्य निक्षेपप्रतिषेधात्, अबाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेणोद्वर्त्तनानिक्षेपप्रवृत्यविरोधात् तत एवमुदयावलिकान्तर्गतानामप्युद्वर्त्तना प्रसक्तेति तन्निरकरणे नाप्रसक्तप्रतिषेधः ॥ १ ॥ इदाणिं णिक्खेवपरूवणत्थं भणति आवलियअसंखभागाइ जाय कम्मट्ठइ ति णिक्खेवो । समउत्तर लियाए साबाहाए भवे ऊणे ॥ २ ॥ MSSZK संक्रमकरणे प्रदेश संक्रमः । ॥ १४१ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy