SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ।१७ / प्रथमतः स्थितेरुद्वतनापयतने वक्तव्ये,स्थिती सत्यामनुभागसंभवात् । तत्राप्युद्देशक्रमप्रामाण्यानुसरणात प्रथमतः स्थितेरुद्वर्तनामेवाह–'उ-11 वट्टण'त्ति-स्थितेरुद्वर्तना उदयावलिकाया बाह्यानां स्थितीनामवगन्तव्या । उदयावलिका तु सकलकरणायोग्येति कृत्वा सा प्रतिषिध्यते ।। अपि च बध्यमानप्रकृतेर्यावती अबाधा तया तुल्या वा हीना वा पूर्ववद्धप्रकृतीनां या स्थितिः सा नोद्वय॑ते-सा उत्पाट्य तत ऊवं बध्यमानप्रकृतेरबाधाया उपरि न निक्षिप्यत इत्यर्थः, अबाधाकालान्तःप्रविष्टत्वात् । या पुनरबाधाकालादुपरितनी सा उद्वय॑त एव । तदेवमवाधान्तःप्रविष्टाः सर्वा अपि स्थितय उद्वर्तनामधिकृत्यातिक्रमणीया भवन्ति-परित्याज्या भवन्तीत्यर्थः । अतिक्रमणीयस्थिति| प्रमाणनिरूपणार्थमेवाह-' होइ' इत्यादि-भवति अबाधा अतीत्थापना-उल्लंघनीया । एषोत्कर्षतोऽतीत्थापना । सा च हीना हीनतरा तावदवगन्तव्या यावत् इस्वा जघन्याऽतीत्थापना आवलिका-आवलिकामात्रा भवति । इयमत्र भावना-अबाधान्तर्गतं कर्मदलिक| मुद्वर्तनायोग्यं न भवति किं त्वबाधायाः परत एव । तथा च सति येवोत्कृष्टाऽबाधा सैवोत्कृष्टाऽतीत्थापना, समयोना उत्कृष्टाध्वाधा समयोनोत्कृष्टाऽतीत्थापना, द्विसमयोनोत्कृष्टाध्वाधा द्विसमयोनोत्कृष्टाऽतीत्थापना । एवं समयसमयहान्याऽतीत्थापना तावद्वाच्या यावज्जघन्याऽवाधाऽन्तर्मुहूर्तप्रमाणा । ततोऽपि जघन्यतराऽतीत्थापना आवलिकामानं भवति, तच्चोदयावलिकालक्षणमवसेयम् । तथाहिउदयावलिकान्तर्गताः स्थितयो नोद्वय॑न्ते " उन्धट्टणा ठिईए उदयावलियाए बाहिरठिइणं " इति वचनात । ननु यदा तदा वा बन्धे सत्युद्वर्तना प्रवर्तिष्यते "आबंधा उक्कड्डिइ" इति वचनात्, तत उदयावलिकागताः स्थितयोऽवाधान्तर्गतत्वेन नोद्वर्तिष्यन्ते, किमुदया| वलिकाग्रहणेन ? तदयुक्तम् ,अभिप्रायापरिज्ञानात् । अबाधान्तर्गताः स्थितयो नोद्वर्त्यन्त इति । किमुक्तं भवति ? अबाधान्तर्गताः स्थितयः | स्वस्थानादुत्पाट्याबाधाया उपरि न निक्षिप्यते । अवाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेणोद्वर्तनानिक्षेपौ प्रवर्तमानौ न विरुध्येते । तत *SADIONEDRODNA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy