SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१३८॥ तित्थगरणामं बन्धमाणस्स बन्धावलिताएं गताए जं बंधावलियपढमसमयबद्धं तित्थकरदलितं परपगतिं संकामेमाणस्स जहण्णपदेससंकमो अहा (पवत्त) संकमेण होति । जहण्णपदेससंकमो खवितकम्मं सितो जोएतव्वो । पएससंकमो सम्मत्तो ॥ १११ ॥ सम्मत्तं च संकमकरणम् ॥ ( मलय ० ) - 'नर' त्ति - नरतिरश्चां त्रिपल्योपमस्यान्ते औदारिकस्य प्रायोग्याः प्रकृतयो जघन्यप्रदेशसंक्रमयोग्याः । इयमत्र भावना - यो जीवः सकलान्यजीवापेक्षया सर्वजघन्यौदारिकसत्कर्मा सन् त्रिपल्योपमायुष्केषु तिर्यग्मनुष्येषु मध्ये समुत्पन्नस्तस्यौदारिकसप्तकमनुभवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुपश्चरमसमये तस्यौदारिक सप्तकस्य जघन्यः प्रदेशसंक्रमो भवति । औदारिकस्य प्रायोग्या इत्यौदारिकसप्तकम् । 'तिन्थयरस्स' इत्यादि - तीर्थकरनामकर्मणो बन्धं कुर्वता यत्प्रथमममये बद्धं दलिकं तत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति तदा तीर्थकरनाम्नो जघन्यः प्रदेशसंक्रमो भवति । तदेवमुक्तः प्रदेशसंक्रमः, तदुक्तौ च समर्थितं संक्रमकरणम् ।। इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणं समाप्तम् ॥ ( उ० ) -- नरतिरथां त्रिपल्योपमस्यान्ते औदारिकस्य प्रायोग्याः प्रकृतय औदारिकसप्तकलक्षणा जघन्य प्रदेशसंक्रमयोग्याः । एषाऽत्र भावना - यो जीवः सर्वान्यजीवापेक्षया सर्वजघन्यौदारिकसप्तकसत्कर्मा सन् त्रिपल्योपमायुष्केषु तिर्यमनुष्येषु मध्ये समुत्पन्नस्तस्यौदारिकसप्तकमनुभवतो विध्यातसंक्रमेण तत्परप्रकृतौ संक्रमयतश्च स्वायुपश्चरमसमये तस्यौदारिकसप्तकस्य जघन्यः प्रदेशसंक्रमो भवति । संक्रमकरणे प्रदेशसंक्रमः । ॥१३८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy