________________
लक
PROCESSORace
२६ एवं चेव, णवरं तेउवाउउव्वल्लंतस्स जहण्णो पदेससंकमो; सुहुमबद्धाणं-मुहुमेण बद्धाणं उच्चागोतमणुतदुगाणं || |एस जहण्णतो पदेससंकमो ॥१०४-१०५॥
(मलय०)-'वेउन्चि'त्ति-देवद्विकनरकद्विकवैक्रियसप्तकलक्षणं वैक्रियकादशकं एकेन्द्रियभवे वर्तमानेनोद्वलितं पुनरपि पञ्चेन्द्रिय| त्वमुपागतेन सता अल्पाद्धम् अल्पकालं अन्तर्मुहर्तकालं यावदित्यर्थः, बद्ध्वा, ततो ज्येष्ठस्थितिरुत्कृष्टस्थितिः-त्रयस्त्रिंशत्सागरोपम| स्थितिक इत्यर्थः, सप्तमनरकपृथिव्यां नारको जातः, ततस्तावन्तं कालं यावत् यथायोगं तक्रियैकादशकमनुभूय ततो नरकादुद्वृत्य पश्चेन्द्रियतिया मध्ये समुत्पन्नः, तत्र च तद्वैक्रियैकादशकमबद्धा स्थावरेष्वेकेन्द्रियेषु मध्ये समुत्पन्नः। तस्य चिरोद्वलनया-पल्योप| मासंख्येयभागमात्रेण कालेनोद्वलनया तदुद्वलयतो यत् द्विचरमखण्डस्य चरमसमये प्रकृत्यन्तरे दलिकं संक्रामति स तस्य वैक्रियैका-१५
दशकस्य जघन्यः प्रदेशसंक्रमः । 'एयस्स' इत्यादि-एतस्यैवानन्तरोक्तस्य जीवस्य पूर्वोक्तेन विधिना तेजोवायुपु मध्ये समागतस्य A सूक्ष्मैकेन्द्रियभवे वर्तमानेन यद्बद्धमुच्चैर्गोत्रं मनुजद्विकं च-मनुजगतिमनुजानुपूर्वीलक्षणं ते चिरोदलनयोदलयतो द्विचरमखण्ड य चर
मसमये परप्रकृतौ यद्दलिकं संक्रामति स तयोर्जघन्यः प्रदेशसंक्रमः । इयमत्र भावना-मनुजद्विकमुच्चैर्गोत्रं च प्रथमतस्तेजोवायुभवे वर्तमानेनोद्वलितं, पुनरपि सूक्ष्मैकेन्द्रियभवमुपागतेनान्तर्मुहूतं यावद्वद्धं, ततः पश्चेन्द्रियभवं गत्वा सप्तमनरकपृथिव्यामुत्कृष्टस्थितिको नारको जातः, तत उद्धृत्य पश्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नः, एतावन्तं च कालमबद्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समागतः, तस्य मनुजद्विकोच्चैगोत्रे चिरोद्वलनयोदलयतो द्विचरमखण्डस्य चरमसमये परप्रकृतौ यद्दलं संक्रामति स तयोर्जघन्यः | प्रदेशसंक्रमः ॥ १०४-१०५॥