________________
कर्मप्रकृतिः |
॥१३०॥
णस्स अंतिमे समए वट्टमाणस्स एतेसिं चतुण्डं जहण्णओ पदेससंकमो भवति । परतो गुणसंक मोत्ति । 'एवमेव मिच्छत्ते 'ति एवमेवंति सागरोवमाणं बे छावट्टीतो गालित अप्पणो खवणाए अहापवत्तकरणस्स अंतिमे समए जहणगो पदेससंकमो भवइ । परतो गुणसंकमो भवतित्ति किवा ॥ ९९ ॥
(मलय ० ) – 'अयर' त्ति - सागरोपमाणां द्वे षट्षष्टी यावत्सम्यक्त्वमनुपालयन् स्त्रीवेदस्त्यानार्द्धत्रिकलक्षणाश्चतस्रः प्रकृतीर्गालयित्वा तासां संबन्धि प्रभूतं कर्मद लिकं परिसाट्य किञ्चिच्छेषाणां सतीनां तासां क्षपणाय समभ्युद्यतस्य यथाप्रवृत्तकरणान्तिमसमये विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमेण प्रभृतकर्मदलिकसंक्रमसंभवात् जघन्यप्रदेशसंक्रमो न लभ्यत | इति यथाप्रवृत्त करणान्तसमयग्रहणम् । 'एमेव मिच्छत्त' इति एवमेव पूर्वोक्तेनैव प्रकारेण मिथ्यात्वस्य जघन्यः प्रदेशसंक्रमोऽवगन्तव्यः । तद्यथा-द्वे षट्षष्टी सागरोपमाणां यावत्सम्यक्त्वमनुपालय तावन्तं कालं मिथ्यात्वं गालयित्वा किञ्चिच्छेषस्य मिथ्यात्वस्य क्षपणाय समुद्यतस्य स्वकीययथाप्रवृत्तकरणान्तसमये वर्तमानस्य विध्यातसंक्रमेण मिथ्यात्वस्य जघन्यः प्रदेशसंक्रमो भवति, परतो गुणसंक्रमः प्रवर्तते, तेन स न प्राप्यते ॥ ९९ ॥
( उ० ) - सागरोपमाणां पट्षष्टिद्विकं यावत्सम्यक्त्वं परिपाल्य स्त्रीवेदस्त्यानर्द्धित्रिकलक्षणा: प्रकृतीर्गालयित्वा सम्यक्त्वप्रभा - वेण तासां सम्बन्धि प्रभृतं कर्मदलिकं परिशाटयेत्यर्थः । ततः किञ्चिच्छेषाणां तासां क्षपणायोद्यतस्य यथाप्रवृत्तकरणान्तिमसमये विध्यातसङ्क्रमेण जघन्यः प्रदेशसङ्क्रमो भवति । परतोऽपूर्वकरणे गुणसङ्क्रमेण प्रभूतकर्मद लिकसङ्क्रमसंभवाजघन्यप्रदेशसंक्रमालाभ इति यथाप्रवृत्तकरणान्तसमयग्रहणम् । एवमेव मिथ्यात्वेऽपि भावनीयम् । मिथ्यात्वस्यापि सागरोपमाणां पदपष्टिद्विकं यावत्स
दि
संक्रमकरणे प्रदेशसंक्रमः ।
॥१३०॥