SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १२९॥ दसमये यथाप्रवृत्तसङ्क्रमेण जघन्यः प्रदेशसङ्क्रमो भवति । अवधिज्ञानमुत्पादयता प्रभूताः कर्मपुद्गलाः परिशाटिताः, तत एतासां स्वस्ववन्धव्यवच्छेदसमये स्तोका एव पुद्गलाः प्राप्यन्ते, जघन्यप्रदेशसङ्क्रमेण चाधिकार इत्यवधिना सह यो वर्तत इत्युक्तम् । तथा तमवधिं विनाऽवधिज्ञानावधिदर्शनरहितस्येत्यर्थः, अवधिज्ञानावरणावधिदर्शनावरणरूपस्य स्वस्वबन्धव्यवच्छेदसमये जघन्यः प्रदेशसङ्क्रमो भवति । अवधिज्ञानमवधिदर्शनं चोत्पादयतः क्षयोपशमप्राचल्यादवधिज्ञानावधिदर्शनावरणकर्मपुद्गला अतीव रूक्षा जायन्ते, ततो बन्धव्यवच्छेद कालेऽपि प्रभृताः परिशटन्ति, तथा च सति जघन्य प्रदेशसङ्क्रमाभाव इति तं विनेत्युक्तम् | 'निदा'|त्ति - निद्राद्विकस्य निद्राप्रचलारूपस्यान्तरायपञ्चकस्य हास्यचतुष्टयस्य च हास्यरतिभयजुगुप्सालक्षणस्य सर्वसङ्ख्ययैकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृत्तसङ्क्रमेण जघन्यः प्रदेशसङ्क्रमो भवति । निद्राद्विकहास्यचतुष्टययोर्बन्धव्यवच्छेदानन्तरं गुणसङ्क्रमेण सङ्क्रमो जायते, ततः प्रभृतं दलिकं लभ्यते, अन्तरायपञ्चकस्य तु बन्धव्यवच्छेदानन्तरं पतद्ग्रहाप्राप्तेः सङ्क्रम एव न संभवति, ततो बन्धान्तसमयग्रहणम् ।। ९७ ।। सायस्सणुवसमित्ता असायबंधाण चरिमबंधंते । खवणाए लोभस्स वि अपुव्वकरणालिगा अंते ॥९८॥ (०) - मातस्सव समित्ता असातबन्धाण चरिमबंधते' त्ति- सातावेयणिजस्म अणुवसमित्ता-चरितमोहं अणुवममित्ता, उवसामितस्स सायं बहुपएसा लब्भंति, खवणाए उज्जयंतस्स 'असातबंधाण चरिमवंधंते' - असायबंधगाण चरिमबंधस्स अंतिमे समए । 'खवणाएं'त्ति-खवणाए अब्भुट्टियस्स सातस्म जहपणतो पदेससंकमो भवति । ट्टातो बहुगं खिज्जइत्ति किच्चा । 'लोभस्स वि' - लोभसंजलणाए बि, अणुपसामि | संक्रमकरणे प्रदेशसंक्रमः । ।। १२९ ।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy