________________
SOCIGRSOICNICICE
राजतित्ति किच्चा। 'णिहादुगंतराइहासचउक्केय'त्ति-निद्दा पयलं च अंतराईतहासरइभयदुगंछाणं अप्पप्पणो बंधवोच्छेयकालसमयंमि णिहादुगहासचउक्काणं परतो गुणसंकमो भवति। 'बंधते' इति सव्वेसिं सामण्णं ॥९॥
(मलय०)-तत्र जघन्यप्रदेशसंक्रमस्वामित्वमाह-'आवरण'त्ति | अवधिना सह वर्तते यो जीवः तस्य अवधिज्ञानावरणरहितं ज्ञानावरणचतुष्टयम् , अवधिदर्शनावरणरहितं दर्शनावरणत्रयम् , एतासां सप्तानां प्रकृतीनामात्मीयात्मीयबन्धव्यवच्छेदसमये यथाप्रवृत्तसंक्रमेण | जघन्यः प्रदेशसंक्रमो भवति । अवधिज्ञानमुत्पादयन् प्रभूतान् कर्मपुद्गलान् परिसाटयति स्म । तत एतासां स्वस्वबन्धव्यवच्छेदसमये स्तोका एव पुद्गलाः प्राप्यन्ते । अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः । ततोऽवधिना सह यो वर्तत इत्युक्तम् । तथा तमवधि विनाsवधिज्ञानावधिदर्शनरहित इत्यर्थः । अवधियुगले अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्वबन्धव्यवच्छेदसमये जघन्यः प्रदेशसंक्रमो भवति । अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रबलक्षयोपशमभावतोऽवधिज्ञानावरणावधिदर्शनावरणयोरतीव रूक्षाः कर्मपदला जायन्ते । ततो बन्धव्यवच्छेदकालेऽपि प्रभूताः परिसटन्ति । तथा च सति जघन्यः प्रदेशसंक्रमो न लभ्यत इति तं विनेत्युक्तम् । 'निहा' इत्यादि-निद्राद्विकं-निद्रामचलारूपम् , अन्तरायपश्चकम् ,हास्यचतुष्कं-हास्यरतिभयजुगुप्सालक्षणं,एतासामेकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृत्तसंक्रमण जघन्यः प्रदेशसंक्रमो भवति । निद्राद्विकहास्यचतुष्टययोर्बन्धव्यवच्छेदानन्तरं गुणसंक्रमेण संक्रमो जायते । ततः प्रभृतं दलिकलभ्यते । अन्तरायपश्चकस्य बन्धव्यवच्छेदानन्तरं संक्रम एव न भवति, पतगृहाप्राप्तेः, ततो बन्धान्तसमयग्रहणम् ॥९७।।
(उ०) तत्र जघन्यप्रदेशसक्रमस्वामित्वं पृथक् पृथक विवृणोति-सहावधिना वर्तते यो जीवस्तस्येति गम्यम् , आवरणसप्तके हा सप्तम्याः पष्ठथर्थत्वादवधिज्ञानावरणरहितज्ञानावरणचतुष्टयावधिदर्शनावरणरहितदर्शनावरणत्रयरूपावरणसप्तकस्य स्वस्वबन्धव्यवच्छे
SDOSDOG