SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ क्षपितकर्माशेनेह जघन्य प्रदेशसंक्रमस्वामित्वे चिन्त्यमाने प्रायेण बाहुल्येन प्रकृतम् अधिकारः काचित्पुनः प्रकृतीरधिकृत्य सविशेष भणिष्यामि ।। ९४-९५-९६ ।। ( उ० ) - तदेवमभिहितमुत्कृष्टप्रदेशसंक्रमस्वामित्वम्, अथ जघन्यप्रदेशसंक्रमस्वामित्वमभिधेयम् । तच्च क्षपितकमांशे प्रायो लभ्यत इति तत्स्वरूपं निरूपयति-यो जीवः पल्योपमासङ्घयेयभागेनोनां कर्मस्थितिं सप्ततिसागरोपमकोटाकोटिप्रमाणां यावत्-पल्योपमासये भागोनसप्ततिसागरोपमकोटाकोटिप्रमाणां कालं यावदित्यर्थः, सूक्ष्मनिगोदेषु सूक्ष्मानन्तकायिकेषु मध्ये स्थित्वा सूक्ष्मनिगोदा हि स्वल्पायुषो भवन्ति, ततस्तेषां निरन्तरप्रभृतजन्ममरणवेदनार्त्तत्वेन प्रभृतपुद्गलपरिशाटः स्यादिति सूक्ष्मनिगोदग्रहणम् । सोऽपि | शेषनि गोद जीवानपेक्ष्यात्यल्पकपायोऽत्यल्पयोगश्च गृह्यते, मन्दकषायतायां स्वल्पतरां स्थितिं बध्नाति स्तोकां चोद्वर्तयति, मन्दयोगतायां च नवकर्मपुद्गलोपादानमतिस्तोकं भवतीति कृत्वा । ईदृशः सूक्ष्मनिगोदो भूत्वाऽभव्यप्रायोग्यजघन्यकल्पं प्रदेशसञ्चयं कृत्वा ततः सूक्ष्मनिगोदेभ्यो निर्गत्य । 'योग्येषु' - सम्यक्त्व देशविरतिसर्वविरतियोग्येषु त्रसेषु मध्ये समुत्पद्य पल्योपमासङ्ख्येयभागमध्येऽसङ्ख्येयवारान् यावत्सम्यक्त्वं तावत एव वारान् किञ्चिदूनान् देशविरतिं च लब्ध्वा कथं लब्ध्वेति चेत्, उच्यते - सूक्ष्मनिगोदेभ्यो निर्गत्य बादरपृथ्वीकायिकेषु मध्ये समुत्पन्नस्ततोऽन्तर्मुहूर्त्तेन कालेन निर्गत्य मनुष्येषु पूर्व कोट्यायुष्केषु मध्ये समुत्पन्नः, तत्रापि शीघ्रमेव माससप्तकानन्तरं योनिनिर्गमनेन जातोऽष्टवार्षिकः सन् संयमं प्रतिपन्नः, ततो देशोनां पूर्व कोटिं यावत्संयममनुपालय स्तोकशेषे जीविते मिथ्यात्वं प्राप्तः । ततो मिथ्यात्वसहित एव मृत्वा दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोत्पन्नः । ततोऽन्तर्मुहूर्त्तमात्रे गते सम्यक्त्वं प्राप्नोति । ततो दशवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपालयान्ते मिथ्यात्वेन कालं गतः सन् बादरपृथ्वीकायिकेषु समुत्पन्नः ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy