SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१२७॥ | जीवानां मन्दयोगता मन्दकषायत्वं च भवति, ततोऽभिनवकर्मपुद्गलोपादानमपि तेषां स्तोकतरमेव प्राप्यत इति सूक्ष्मनिगोदग्रहणम् । 'अभवियजोगं जहन्नयं कट्टु निग्गम्म' त्ति - अभव्यप्रायोग्यं जघन्यं अभव्यप्रायोग्यजघन्यकल्पं प्रदेशसंचयं कृत्वा ततः सूक्ष्मनिगोदेभ्यो निर्गत्य । 'योग्येषु' - सम्यक्त्वदेशविरतिसर्वविरतियोग्येषु त्रसेषु मध्ये उत्पद्य पल्योपमासंख्येयभागमध्ये संख्यातीतान् वारान् यावत् सम्यक्त्वं स्वल्पकालिकीं देशविरतिं च लब्ध्वाः कथं लब्ध्वेति चेत्, उच्यते-सूक्ष्मनिगोदेम्यो निर्गत्य बादरपृथ्वीकायेषु मध्ये समुत्पन्नस्ततोऽन्तर्मुहूर्तेन कालेन विनिर्गत्य मनुष्येषु पूर्वकोट्यायुष्केषु मध्ये समुत्पन्नः । तत्रापि शीघ्रमेव माससप्तकानन्तरं योनिवि - निर्गमनेन जातः । ततोऽष्टवार्षिकः सन् संयमं प्रतिपन्नः । ततो देशोनां पूर्वकोटीं यावत् संयममनुपालय स्तोकावशेषे जीविते सति मिथ्यात्वं प्रतिपन्नस्ततो मिथ्यात्वेनैव कालगतः सन् दशवर्षसहस्रपमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः । ततोऽन्तर्मुहूर्तमात्रे गते सति सम्यक्त्वं प्रतिपद्यते । ततो दशवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपालय पर्यवसानावसरे मिथ्यात्वेन कालगतः सन् बादरपृथिवीकायिकेषु मध्ये समुत्पन्नः । ततोऽन्तर्मुहूर्तेन ततोऽप्युवृत्य मनुष्येषु मध्ये समुत्पद्यते । ततः पुनरपि सम्यक्त्वं वा देशविरतिं वा सर्वविरतिं वा प्रतिपद्यते । एवं देवमनुष्यभवेषु सम्यक्त्वादि गृह्णन् मुञ्चं तावद्वक्तव्यो यावत्पल्योपमासंख्येयभागमध्ये संख्यातीतान् वारान् यावत् सम्यक्चलाभः स्वल्पकालिकश्च देशविरतिलाभो भवति । इह यदा यदा सभ्यक्त्वादिप्रतिपत्तिस्तदा तदा बहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोति, ततो बहुशः सम्यक्त्वादिप्रतिपत्तिग्रहणम् । एतेषु च सम्यक्त्वादियोग्येषु भवेषु मध्येऽष्टौ वारान् सर्वविरतिं प्रतिपद्यते तावत एव वारान् अष्टौं वारानित्यर्थः, विसंयोजनहा - अनन्तानुबन्धिविघातको भूत्वा तथा चतुरो वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् भवे लघु शीघ्रं कर्माणि क्षपयन क्षपितकमांश इत्यभिधीयते; एतेन च संक्रमकरणे प्रदेश संक्रमः । ॥१२७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy