SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Vrass555 तिपद्यते । ततो भूयोऽपि सम्यक्त्वमनुभवन् षट्पष्टिसागरोपमाणि यावदेताः प्रकृतीबंधनातीति । तदेवं द्वात्रिंशदभ्यधिकं सागरोपमशतं यावत् सम्यग्दृष्टिर्धुवा आपूर्य, वज्रर्षभनाराचसंहननं तु मनुष्यभवहीनं यथासंभवमुत्कृष्टं कालमापूर्य, ततः सम्यग्दृष्टेर्भुवा अपूर्वकरणगुणस्थानके बन्धव्यवच्छेदानन्तर मालिकांमात्रं कालमतिक्रम्य यशःकीत संक्रमयतस्तासामुत्कृष्टः प्रदेशसंक्रमः, तदानीं प्रकृत्यन्तरदलिकानामप्यतिप्रभूतानां गुणसंक्रमेण लब्धानां संक्रमावलिका तिक्रान्तत्वेन संक्रमसंभवात् । वज्रर्षभनाराच संहननस्य तु देवभवाच्च्युतः सन् सम्यग्दृष्टिर्देवगतिप्रायोग्यं बध्नन्, आवलिकामात्रं कालमतिक्रम्योत्कृष्टं प्रदेशसंक्रमं करोति ॥ ८९ ॥ (उ०)-स्निग्धलक्षणस्पर्शसमे स्थिरशुभनामनी द्रष्टव्ये, यथाऽनन्तरं शुभध्रुवबन्धिनामप्रकृत्यन्तर्गतस्य स्निग्धस्पर्शस्योत्कृष्टप्रदेशसंक्रमभावना कृता तथैवैतयोरपि कर्तव्येत्यर्थः । अध्रुवबन्धित्वादनयोः पृथगुपादानम् । सम्यग्दृष्टेः शुभध्रुवबन्धिन्योऽपि पञ्चेन्द्रियजात्याद्यसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसचतुष्कसुभगत्रिकलक्षणा द्वादश शुभसंहननयुता वज्रर्षभनाराचसंहननसहिताः, वज्रर्षभनाराच हि न सम्यग्दृष्टेर्ध्रुवबन्धि, मनुजतिर्यग्भवे वर्तमानस्य सम्यग्दृष्टेर्देवगतिप्रायोग्यस्यव बन्धसंभवेन संहननबन्धानुपपत्तेरिति पृथगुक्तम् । द्वात्रिंशदधिकसागरोपमशतचिता उत्कृष्टप्रदेशसंक्रमयोग्याः । तथाहि — पट्षष्टिसागरोपमाणि यावत्सम्यक्त्वमनुपालयन्नेता बध्नाति, ततोऽन्तर्मुहूर्त्तं कालं यावत्सम्यग्मिथ्यात्वमनुभूय भूयोऽपि सम्यक्त्वं प्रतिपद्य तदनुभवन् पट्षष्टिसागरोपमाणि यावदेता: प्रकृती - ध्नाति । तदेवं द्वात्रिंशं शतं सागरोपमाणां सम्यग्दृष्टिर्ध्रुवा आपूर्य, वज्रर्षभनाराचसंहननं तु मनुष्यभवहीनं यथासंभवमुत्कृष्टं कालमापूर्यापूर्वकरणगुणस्थाने बन्धव्यवच्छेदानन्तरमावलिकामात्रं कालमतिक्रम्य यशःकीत ध्रुवाः संक्रमयँस्तासामुत्कृष्टप्रदेशसंक्रमं करोति, गुणसंक्रमेण लब्धस्य प्रकृत्यन्तरद लिकराशेरप्यतिप्रभूतस्य संक्रमावलिकातीतस्य तदानीं संक्रमसंभवात् । वज्रर्षभनाराचसंहननस्य तु vasaa
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy