SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ SIDGOGos क्षपणायोद्यतते । केवलं बन्धव्यवच्छेदादर्वाक् आवलिकाद्विकेन कालेन यद्धं पुरुषवेददलिकं तदतीव स्तोकमिति कृत्वा तत्परित्यज्य | शेषस्य चरमसंच्छोमे उत्कृष्टः प्रदेशसंक्रमो वेदितव्यः। तथा तस्यैव-पुरुषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनः संज्वलनक्रोधस्य संसारं परिभ्रमता उपचितस्य-क्षपणकाले प्रकृत्यन्तरदलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके-आत्मीये चरमसंच्छोमे उत्कृष्टः प्रदेशसंक्रमो भवति । अत्रापि बन्धव्यवच्छेदादाक् आवलिकाद्विकेन कालेन यदद्धं तन्मुक्त्वा शेषस्य चरमसंच्छोभे उत्कृष्टः प्रदेशसंक्रमो द्रष्टव्यः ।। एवं मानमाययोरपि वाच्यम् ।।८७।।। (उ०)-तां देवस्थिति भुक्त्वा ततो देवभवाच्च्युत्वा मनुष्येष्वागत्य माससप्तकाभ्यधिके वर्षाष्टकेतिक्रान्ते लघु-शीघ्र क्षपणायोद्यतते, तस्य पुरुषवेदं चरमसंछोमे संछुभतस्तस्योत्कृष्टप्रदेशसंक्रमो भवति, केवलमेष बन्धव्यवच्छेदादर्वागावलिकाद्विकेन कालेन यद्धं पुरुष| वेददलिकं तदतीव स्तोकमिति कृत्वा तत्परित्यज्य शेषस्य द्रष्टव्यः । तथा तस्यैव-पुरुषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनः संज्वलनक्रोधस्य संसारपरिभ्रमणेनोपचितस्य-क्षपणकाले प्रकृत्यन्तरदलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके-आत्मीये चरमसंछोभे उत्कृष्टः प्रदेशसंक्र| मो भवति । अत्रापि बन्धव्यवच्छेदादागावलिकाद्विकमानेन कालेन यद्वद्धं तन्मुक्त्वा शेषस्य चरमसंछोभे उत्कृष्टः प्रदेशसंक्रमो द्रष्टव्यः । एवं मानमाययोरपि वाच्यम् ।।८७॥ चउरुवसमित्तु खिप्पं लोभजसाणं ससंकमस्संते। सुभधुवबंधिगनामा णावलिगं गंतु बंधता ॥ ८॥ (चू०)-'चतुरुवसमित्तु'। चत्तारिवारे कसाए उवसामित्तु 'खिप्पं ति-लहमेव खवगसेटिं पडिवण्णस्स तस्से व गुणितकंमंसितस्स लोभजसाणं उकोसो पदेमसंकमो लब्भति । कहं ? भण्णइ-उवसमसेटिं पडिवण्णस्स
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy