SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ 99228 6 | ग्रहणम् | तथोपरितनीषु स्थितिषु नियेकं कर्मदलिकन्यासं बहु- स्वभूमिकानुसारेणातिप्रभूतं कृत्वा, एवं बादरपृथ्वीकायिकेषु वादरत्रसकाय स्थितिन्यूनाः सप्ततिसागरोपमकोटाकोटीः संसृत्य ततो निर्गच्छति, निर्गत्य च बादरत्रसकायेषु द्वीन्द्रियादिषु समुत्पद्यते ।। ७४-७५ ।। बादरत्रसेषु चैवं प्रभूतस्तोकपर्याप्तापर्याप्तभवावस्थानाद्युपरितनस्थितिबहुनिषेककरणान्तेन पूर्वक्तिन तत्कालं - बादरत्रसकाय स्थितिकालं पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपमसहस्रद्वयप्रमाणं परिभ्रमणेन संपूर्य यावतो वारान् सप्तमीं नरकावनिं गन्तुमर्हस्तावतो वाराँस्तत्र गत्वाऽन्तिमे भवे सप्तमपृथ्वीनारकत्वेन वर्तमानः, इह दीर्घजीवित्वं योगकषायोत्कटता च लभ्यत इति यावत्संभवं सप्तमनरकपृथ्वीगमनग्रहणम् । तथा सप्तमक्षितौ नारकभवे सर्वेभ्योऽप्यन्येभ्यो नारकेभ्यो लघु- शीघ्रं पर्याप्तभावमुपगतः । इहापर्याप्तापेक्षया पर्याप्तोऽसययगुणयोगो लभ्यते, तथा च तस्यातिप्रभूतकर्मपुद्गलोपादानसंभवः, तेन चेह प्रयोजनमिति सर्वलघुपर्याप्त इत्युक्तम् | बहुशवा नेकवारं तस्मिन्नन्त्यसप्तमनरकपृथ्वीनारकभवेऽपि योगकषायाधिको भूत्वा उत्कृष्टानि योगस्थानान्युत्कृष्टाश्च काषायिकान् परिणामविशेषान् गच्छन्नित्यर्थः ॥ ७६ ॥ योगयवमध्यस्य–अष्टसामयिकानां योगस्थानानामुपरि अन्तर्मुहूर्त्तं जीवितावसाने स्थित्वाऽन्तर्मुहूर्त्ताविशेषे आयुषि योगयवम - ध्यस्योपरि असङ्खयेयगुणवृद्ध्याऽन्तर्मुहूर्त्तं यावत्प्रवर्धमानो भूत्वेत्यर्थः । भवस्य त्रिचरमे द्विचरमे च समये वर्तमान उत्कृष्टं काषायिकसंक्लेशस्थानं पूरयित्वा त्रयः समयाश्वरमा यस्माद्यत आरभ्यान्तिमः समयस्तृतीयो भवतीति यावत् स त्रिचरमः, एवं द्वौ चरमौ यस्मात्स द्विचरम इति व्युत्पत्तिः । चरमे द्विचरमे च समये योगस्थानमपि चोत्कृष्टं पूरयित्वा । इहोत्कृष्टो योग उत्कृष्टश्च संक्केशो युगपदेकमेव समयं यावत्प्राप्यते नाधिकमिति विषमसमयोद्भवोत्कृष्टयोगोत्कृष्टकषायस्थानग्रहणम् । त्रिचरमे द्विचरमे च समये उत्कृष्टसंक्लश
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy