________________
गुणितकर्माशो भवति, तेन च संपूर्णगुणितकर्माशेन इहोत्कृष्टप्रदेशसंक्रमस्वामित्वे प्रकृतम् अधिकारः ॥ ७७-७८ ।। कर्मप्रकृतिः (उ०)-तदेवं कृता साद्यनादिप्ररूपणा । अथोत्कृष्ट प्रदेशसंक्रमस्वामित्वमभिधेयम् । तच्च गुणितकाशे लभ्यत इति तं लक्षयन्नाह- संक्रमकरणे ११ यो बादरत्रसानां द्वीन्द्रियादीनाम् , तेजोवायुकायिकरूपसूक्ष्मत्रसव्यवच्छेदार्थ बादरग्रहणम् , कालेन पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपम-6| प्रदेश
संक्रमः। सहस्रद्वयप्रमाणेन कायस्थितिकालेनोनां कर्मस्थिति मोहनीयकर्मस्थिति सप्ततिसागरोपमकोटाकोटिप्रमाणां यावत् पृथिव्यां बादरे
बादरपृथिवीकायभवेषु स्थित्वा । कथं स्थित्वा ?इत्याह-पर्याप्तापर्याप्तकयोदीघेतराद्धे, सप्तमी द्वितीयार्थे दीर्घाद्धां पर्याप्तभवेषु, इतराद्धां-16 १६ | स्तोकाद्धामपर्याप्तभवेषु, प्रभूतेषु पर्याप्तभवेषु स्तोकेषु चापर्याप्तभवेषु स्थित्वेत्यर्थः । तथा बहुशोऽनेकवारं योगकषायोत्कृष्टः-उत्कृष्टेषु योग
स्थानेषु उत्कृष्टेषु च कापायिकेषु संकेशपरिणामेषित्वेत्यर्थः । इह शेषैकेन्द्रियेभ्यो बादरपृथिवीकायिकः प्रभूतायुष्कस्तेनाव्यवच्छिन्नं तस्य | | प्रभृतकर्मपुद्गलोपादानम् , बलवत्तयाऽतीव वेदनासहिष्णुतया च तस्य प्रभूतकर्मपुद्गलपरिशाटाभावः, असहिष्णुरेव वेदनाकरालितस्तथा
तथा प्रयोगेण प्रभूतकर्मपुद्गलान् परिशातयतीत्येवमालोच्य बादरपृथिवीकायिकग्रहणं कृतम् । अपर्याप्तभवग्रहणं च परिपूर्णकायस्थितिपरि-४ | ग्रहाय, तेषां चापर्याप्तकभवानां स्तोकानां पर्याप्तकभावानां च प्रभृतानां ग्रहणं प्रभृतकर्मपुद्गलपरिशाटाभावज्ञापनाय, अन्यथा हि नि| रन्तरोत्पद्यमानम्रियमाणेषु बहुपुद्गलपरिशाटो लभ्यते, न च तेनेह प्रयोजनम् । उत्कृष्टेषु योगस्थानेषु च वर्तमानः प्रभृतं कर्मदलिक-1)
मादत्ते, उत्कृष्टसंक्लेशपरिणामश्चोत्कृष्टां स्थिति बध्नाति, प्रभृतमुद्वर्तयति, स्तोकं चापवर्तयतीति योगकषायोत्कृष्टग्रहणम् । तथा नित्यं सर्व-१३ C. कालं भवे भवे जघन्ययोगे वर्तमानस्तेनायुबन्धं कृत्वा, उत्कृष्टे ह्यायुःप्रायोग्ये योगे वर्तमानः प्रभूतायुःपुद्गलानादत्ते, उत्कृष्टेन योगेन ।
॥११४॥ | प्रभूतानायुःपुद्गलानाददानश्च तथास्वाभाव्याज्ज्ञानावरणीयस्य प्रभूतान् पुद्गलान् परिशाटयति, न च तेनेह प्रयोजनमिति जघन्ययोग |