SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ 'वायर' ति । एवं पूर्वोक्तेन विधिना "पजत्तापञ्जत्नगदीहेयरद्धासु ॥ जोगकसाउकोसो बहुसो निच्चमवि आउबंधं च । जोग-14 जहष्णेणुवरिल्लठिइनिसेगं बहुं किच्चा" || इत्येवंरूपेण बादरत्रसेषु तत्कालं-बादरत्रसकायस्थितिकालं पूर्वकोटिपृथक्त्वाभ्यधिकसाग-1 रोपमसहस्रद्वयप्रमाणं परिभ्रम्य यावतो वारान् सप्तमी नरकपृथिवीं गन्तुं योग्यो भवति तावतो वारान् गत्वा अन्तिमे सप्तमपृथिवीनारकभवे वर्तमानः । इह दीर्घजीवित्वं योगकषायोत्कटता च लभ्यत इति यावत्संभवसप्तमनरकपृथ्वीगमनग्रहणम् । तथा सप्तमपृथ्वीनारकभवे | सर्वलघुपर्याप्तः सर्वेभ्योऽप्यन्येभ्यो नारकेभ्यः शीघ्रं पर्याप्तभावमुपगतः । इहापर्याप्तापेक्षया पर्याप्तस्य योगोऽसंख्येयगुणो भवति, तथा| |च सति तस्यातीव प्रभृतकर्मपुद्गलोपादानसंभवः, तेन चेह प्रयोजनमिति सर्वलघुपर्याप्त इत्युक्तम् । बहुशश्च-अनेकवारं च तस्मिन् भवे |) | वर्तमानो योगकषायाधिकः उत्कृष्टानि योगस्थानानि उत्कृष्टांश्च काषायिकान् परिणामविशेषान् गच्छन् ।। ७६ ॥ 'जोग' ति योगयवमध्यस्योपरि अष्टसामयिकानां योगस्थानानामुपरीत्यर्थः, अन्तर्मुहूतं कालं यावत् स्थित्वा जीवितावसानेऽन्तमुहर्ते आयुषः शेषे । एतदुक्तं भवति अन्तर्मुहूर्तावशेष आयुषि योगयवमध्यस्योपरि असंख्येयगुणवृद्धथाऽन्तर्मुहूर्त कालं यावत् प्रवर्धमानो भूत्वा । ततः किमित्याह-'तिचरिम' इत्यादि । त्रयश्वरमा यस्मात्स त्रिचरमः, यत आरभ्यान्तिमः समयस्तृतीयो भवति । SIस त्रिचरम इत्यर्थः, तस्मिन् भवस्य त्रिचरमे द्विचरमे च समये वर्तमान उत्कृष्ट काषायिक संक्लेशस्थानं पूरयित्वा, चरमे द्विचरमे लच समये योगस्थानमपि चोत्कृष्टं पूरयित्वा । इहोत्कृष्टो योग उत्कृष्टश्च संक्लेशो युगपदेकमेव समयं यावत् प्राप्यते, नाधिकमिति विषमसमयतया उत्कृष्टयोगोत्कृष्टकषायस्थानग्रहणम् । त्रिचरमे द्विचरमे च समये उत्कृष्टसंक्लेशग्रहणं प्रभृतोद्वर्तनास्वल्पापवर्त्तनाभावार्थम् , द्विचरमे चरमे च समये उत्कृष्टयोगग्रहणं परिपूर्णप्रदेशोपचयसंभवार्थम् । स इत्थंभूतो नारकभवस्य चरमसमये वर्तमानः संपूण.
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy