SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः | ॥११३॥ सव्यवच्छेदार्थं बादरग्रहणम् । बादरत्रसानां द्वीन्द्रियादीनां यः कायस्थितिकालः पूर्वकोटीपृथक्त्वाभ्यधिकद्विसहस्रसागरोपमप्रमाणः, तेनोनां कर्मस्थितिं सप्ततिसागरोपमकोटी कोटीप्रमाणां यावत् पृथिव्यां बादरे बादरपृथिवीकायभवेषु स्थित्वा, कथं स्थित्वा ? इत्यत आह'पजत्तापञ्जत्तगदीहेयरद्धासु' त्ति-दीर्घतराद्धाभ्यां पर्याप्तापर्याप्तयोर्यथासंख्येन योजना, ततोऽयमर्थः - दीर्घाद्धं पर्याप्तभवेषु, इतरार्द्ध-स्तो| काद्धमपर्याप्तभवेषु प्रभूतेषु पर्याप्तभवेषु स्तोकेषु चापर्याप्तभवेषु स्थित्वेत्यर्थः । तथा बहुशः - अनेकवारम्, 'योगकषायोत्कृष्ट : ' - उत्कृष्टेषु | योगस्थानेषु उत्कृष्टेषु च काषायिकेषु संक्लेशपरिणामेषु वर्तित्वा । इह शेषैकेन्द्रियेभ्यो चादरपृथिवीकायस्य प्रभूतमायुस्तेनाव्यवच्छिन्नं | तस्य प्रभूतकर्मपुद्गलोपादानम् । बलवत्तया च तस्यातीव वेदनासहिष्णुत्वम् । तेन तस्य प्रभूतकर्मपुद्गलपरिसाटो न भवतीति बादर| पृथ्वीकायिकग्रहणम् । अपर्याप्तभवग्रहणं च परिपूर्णकायस्थितिपरिग्रहार्थम् । तेषां चापर्याप्तकभवानां स्तोकानां पर्याप्तकभवानां च प्रभूतानां ग्रहणं प्रभूतकर्मपुद्गलपरिसाटाभावप्राप्त्यर्थम्, अन्यथा हि निरन्तरमुत्पद्यमानम्रियमाणेषु बहवः पुद्गलाः परिसटन्ति, न च तेन प्रयोजनम् । उत्कृष्टेषु च योगस्थानेषु वर्तमानः प्रभृतं कर्मद लिकमादत्ते, उत्कृष्टसं क्लेशपरिणामश्चोत्कृष्टां स्थिति बनातिप्रभूतां चोद्वर्तयति स्तोकं चापवर्तयति, अतो योगकपायोत्कृष्टग्रहणम् । 'निच्चम्' इत्यादि नित्यं सर्वकालं भवे भवे आयुर्बन्धकाले जघन्ये | योगे वर्तमान आयुर्वन्धं कृत्वा, उत्कृष्टे हि आयुःप्रायोग्ये योगे वर्तमानः प्रभृतानायुः पुद्गलान् आदत्ते तथास्वाभाव्याच्च ज्ञानावरणीयस्य प्रभृतान् पुद्गलान् परिसाटयति, न च तेन प्रयोजनम्, अतो जघन्ययोगग्रहणम् । तथोपरितनीषु स्थितिषु निषेकं कर्म दलिकन्यासरूपं बहु- स्वभूमिकानुसारेणातिशयेन प्रभूतं कृत्वा । एवं बादरपृथ्वीकायिकेषु मध्ये पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपमसहस्रद्वयन्नाः सप्ततिसागरोपमकोटीकोटीः संसृत्य ततो विनिर्गच्छति, विनिर्गत्य च बादरत्रसकायेषु द्वीन्द्रियादिषु मध्ये समुत्पद्यते ।।७४-७५।। संक्रमकरणे प्रदेशसंक्रमः । ॥११३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy