SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ तत्र क्षपितकर्माशः क्षपणोद्यतो ध्रुवसत्कर्मप्रकृतीनां सर्वासामपि जघन्यप्रदेशसंक्रमं करोति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्य-| जघन्यः, स चोपशमश्रेण्यां बन्धव्यवच्छेदे न भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः । धुवाधुवावभव्यभव्यापेक्षया । अनुत्कृष्टोऽपि प्रदेशसंक्रमो ध्रुवसत्कर्मणामावरणनवकं ज्ञानावरणपश्चकदर्शनावरणचतुष्कलक्षणं तथान्तरायपञ्चकमौदारिकसप्तकं च वर्जयित्वा शेपस्य पश्चोत्तरप्रकृतिशतस्य चतुर्धा । तथाहि सर्वासामपि प्रकृतीनां गुणितका क्षपणार्थमभ्युद्यते उत्कृष्टः प्रदेशसंक्रमो लभ्यते, नान्यत्र, ततोऽसौ सादिरध्रुवश्च, तस्मादन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेण्यां व्यवच्छिद्य ततः प्रतिपाते भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवो पूर्ववत् । शेषविकल्पाः पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च, ज्ञानावरणीयाद्यकविंशतिप्रकृतीनां च जघन्योत्कृयानुत्कृष्टा इत्येते सादयोऽध्रुवाश्च । तत्र पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च साद्यध्रुवतया भावित एव । ज्ञानावरणीयादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकाशे मिथ्यादृष्टौ कदाचिदेव पाप्यते, शेषकालं त्वनुत्कृष्ट इत्येतौ द्वावपि साद्यधुवौ । जघन्यस्तु साद्यध्रुवतया भावित एव । शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्य विकल्पा अध्रुवसत्कर्मत्वात्, मिथ्यात्वस्य ध्रुवसत्कर्मणोऽपि पतद्ग्रहापाप्तेरध्रौव्यात् , नीचेर्गोत्रसातासातवेदनीयानां तु परावर्तमानत्वात्सादयोऽध्रुवाश्वावगन्तव्याः ॥७२॥७३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy