________________
तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते तर्हि पल्योपमासङ्ख्येयभागमात्रेण कालेन निःशेषापहारो भवति, उगलनासंक्रमे | द्विचरमखण्डस्य चरमप्रक्षेपे यत्स्वस्थाने दलिकं प्रदीयते तावत एव यथाप्रवृत्तसंक्रमप्रक्षेपप्रमाणत्वात् । उद्वलनासंक्रमेणापि द्विचरमस्थितिखण्डस्य चरमसमये यत् स्वस्थाने प्रक्षिप्यते दलिकं तेन मानेन चरमस्थितिस्वण्डस्थापहारकालः पल्योपमासङ्घयेयभागमात्रलक्षणो ज्ञातव्यः इत्येतौ द्वावपि स्वस्थानप्रक्षेपरूपेण तुल्यौ । पूर्वं तु परस्थानप्रक्षेपरूपेणोलनासंक्रमो ग्राह्य इत्युक्तमेव । इत्थमेव प्रदशितं पञ्चसंग्रहे- "जंgarमस्स चरमे सासु देइ समयम्मि । ते भागे जहकमसो अहापवनुब्बलणमाणे ||८२||" इति । इहान्योsपि षष्ठः स्तिबुकसंक्रमोऽस्ति परं न तेन संक्रमकरणविशेष आक्षिप्यते, करणस्य सलेश्यवीर्यरूपत्वात् स्तित्रुकसंक्रमेण संक्रमस्य च लेश्यातीतस्यायोगिकेवलिनोऽपि भगवतो द्विचरमसमये द्वासप्ततिप्रकृतीनां प्रतिपादनात् । न च स्तिबुकसंक्रमेण संक्रान्तं दलिकं सर्वथा पतग्रहप्रकृतिरूपतया परिणमत इति न यथोक्तसंक्रमस्वभावोऽसौ तथापि संक्रमशब्देनायमप्युच्यत इति संक्रमप्रस्तावा लक्षयन्नाह - 'थिबुगो अणुइन्नाए उजं उदए । अनुदीर्णाया - अनुदयप्राप्तायाः सत्कं यत्कर्मदलिकं सजातीयप्रकृतावृदयप्राप्तायां समानकालस्थितौ संक्रमयति, संक्रमयित्वा चानुभवति, यथा मनुजगताबुदयप्राप्तायां शेषं गतित्रयम्, एकेन्द्रियजातौ जातिचतुष्टयमित्यादि, यथा वा क्षपणकाले संज्वलनक्रोधादीनां शेषीभृता आवलिकाः संज्वलनमानादौ, एप स्तिबुकसंक्रमः । उक्तं च- “अनुदीर्ण| मुदीर्णान्तस्तुल्यकालं प्रतिक्षणम् । दलिकं संक्रमं याति, येन स स्तिवुको मतः ||१||" इति । एष एव च प्रदेशानुभवो गीयते ॥ ७१ ॥
Ha