________________
कर्म प्रकृतिः
॥१०८॥
Sras
मणूसस्स मणुयगतीए वेतिजमाणीए णरगगतितिरियगतिदेवगतिकम्मदलितं अणुदिण्णं मणुतगतिए समं वेदिज्जति । एवं सव्वत्थ भाणियव्वं ॥ ७१ ॥
(०) - प्राग्यथाप्रवृत्तसंक्रमस्य कालो नोक्तः, उद्वलनासंक्रमेऽपि यद् द्विचरमं स्थितिखण्डं तस्य चरमसमये स्वस्थाने यत्कर्मदलिकं प्रक्षिप्यते तेन मानेन शेषस्य चरमस्थितिखण्डस्यापहारकालो नोक्तस्ततस्तन्निरूपणार्थमाह-'पल्ल'त्ति- उद्वलनासंक्रमे यच्चरमं स्थितिखण्डं तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते तर्हि पल्योपमासंख्येयभागमात्रेण कालेन निःशेषतोऽपहारो भवति । उछलनासंक्रमेणापि द्विचरमस्थितिखण्डकस्य चरमसमये यत्स्वस्थाने प्रक्षिप्यते दलिकं तेन मानेन चरमस्थितिखण्ड स्थापहारकालः पल्योपमासंख्येय भागलक्षणो वेदितव्यः । तत एतौ द्वावपि तुल्यौ । इहान्योऽपि षष्ठः स्तिबुकसंक्रमोस्ति परं नासौ संक्रमकरणे संबध्यते, कर| लक्षणासंभवाद् । करणं हि सलेश्यं वीर्यमुच्यते । अथ च लेश्यातीतोऽपि भगवानयोगिकेवली द्विचरमसमये द्विसप्ततिप्रकृतीः स्तिकसंक्रमेण संक्रमयति । अपि च स्तिबुकसंक्रमेण संक्रान्तं दलिकं न सर्वथा पतग्रहप्रकृतिरूपतया परिणमते, ततो नासौ संक्रमे संघध्यते । परसेषोऽपि संक्रम इति संक्रमप्रस्तावातल्लक्षणनिरूपणार्थमाह - 'थिबुगो' इत्यादि । 'अनुदीर्णायाः - अनुदयप्राप्तायाः सत्कं यत्कमंद लिकं सजातीयप्रकृतात्रुदयप्राप्तायां समानकालस्थितौ संक्रमयति, संक्रमय्य चानुभवति, यथा मनुजगताबुदयप्राप्तायां शेषं गतित्रयम्, | एकेन्द्रियजातौ जातिचतुष्टयमित्यादि स स्तिबुकसंक्रमः । एष एव च प्रदेशानुभवः ॥ ७१ ॥
( उ० ) - इह पूर्व यथाप्रवृत्तसंक्रमस्य कालो नाभिहितः, उद्वलनासंक्रमेऽपि यद् द्विचरमं स्थितिखण्डं तस्य चरमसमये स्वस्थाने यत्कर्मदलिकं प्रक्षिप्यते तेन मानेन शेषस्य चरमस्थितिखण्डस्यापहारकालो नोक्तः ततस्तन्निरूपणायाह - उद्वलनासंक्रमे यच्चरमं स्थितिखण्डं
Aa
संक्रमकरणे प्रदेशसंक्रमः ।
॥ १०८ ॥