________________
STACEAGE
करणादारभ्य प्रवर्तमानो गुणसंक्रमो न विरुध्यते । लक्षितो गुणसंक्रमः, अथ यथाप्रवृत्तसंक्रमं लक्षयन्नाह–'बंधे' इत्यादि । ध्रुवबन्धि| नीनां बन्धे सति यथाप्रवृत्तसंक्रमः प्रवर्त्तते । 'परित्तिओ व' त्ति परावर्तमानप्रकृतिसम्बन्धी यथाप्रवृत्तसंक्रमोऽबन्धेऽपि वा भवति, आ-| स्तां बन्धे इत्यपिशब्दार्थः । इयमिह भावना-सर्वेषामपि संसारस्थानां जीवानां ध्रुववन्धिनीनां बन्धे परावर्तमानप्रकृतीनां तु स्वस्वभवबन्धयोग्यानां बन्धेऽबन्धे वा यथाप्रवृत्तसंक्रमो भवति । तत्र ध्रुवबन्धिनीनामध्रुवबन्धिनीनां वा यदि तत्काले प्रभृतं दलं बध्यमानं प्राप्यते, कासाश्चिदध्रुवबन्धिनीनां तद्भवबन्धयोग्यानां तदानीमबन्धेऽपि यदि प्राग्बद्धं प्रभूतं दलिकं प्राप्यते, तर्हि प्रभृतं दलं संक्रमयति, स्तोकं चेत्प्राप्यते तदा स्तोकं संक्रमयति । तच्च जघन्ययोगे वर्तमानो जघन्यं दलिकम् , मध्यमे मध्यमम् , उत्कृष्टे चोत्कृष्टमिति । यथाप्रवृत्या संक्रमयतीत्यस्य यथाप्रवृत्तसंक्रम इत्यत्वर्थ नाम गीयते । एतेषु पञ्चसु संक्रमेषु कः कं बाधित्वा प्रवर्तते इति चेद् , उच्यतेयथाप्रवृत्तं संक्रमं प्रवर्तमानं स्वहेतुसम्पर्कसामर्थ्येन बाधित्वा विध्यातसंक्रमो गुणसंक्रमो वा भवति । सर्वसंक्रमोऽप्युद्वलनासंक्रमस्य चरमखण्डे चरमप्रक्षेप इति सोऽप्युद्वलनासंक्रमं बाधित्वा प्रवर्तत इति ज्ञेयम् ॥६९।। यथाप्रवृत्तसंक्रमः ।
गुणसंक्रमः । अवध्यमानाशुभानामेय स्यात् । ध्रवबन्धिनीनाम् । तद्बन्धकाः मिथ्यात्वान्तानां१३अनं० तिर्यगायु रुद्योतवर्ज१९सास्वादनान्तानां ८ मादयः तद्भवयोग्यपरावर्त्तमानानां तद्वन्धका अबन्धका वा ८ मध्यमकषाया० अस्थिराशुभायशःशोकारत्यसातानां च अयं योगानुरूपः संक्रमः स्यात्, अस्य बाधको
निद्रा २-उप०-कुवर्णादि ९-हास्यरतिभयकुत्सानाम् विध्यातो गुणसंक्रमो वा भवति मिथ्या०-मिश्रानन्तानुबन्धि ४ र्णाम्
४र्थतः७मान्ताः