________________
ख्येयगुणनया श्रेण्या बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसंक्रमः । तेन क्षपणकालेऽनन्तानुबन्धिमिथ्यात्वसम्यग्मिथ्यात्वानामकर्मप्रकृतिः प्यपूर्वकरणादारभ्य गुणसंक्रमः प्रवर्तते । तदेवमुक्तं गुणसंक्रमस्य लक्षणम् , सम्प्रति यथाप्रवृत्तसंक्रमस्य प्रतिपादयति-'बंधे' इत्यादि ।
संक्रमकरणे ध्रुवबन्धिनीनां प्रकृतीनां बन्धे सति यथाप्रवृत्तः संक्रमः प्रवर्तते । 'परित्तिओ वा' इति-परित्ति' अनेन परावर्तमानाः प्रकृतय उच्यन्ते,
प्रदेश॥१०६||
संक्रमः। तासामबन्धेऽपि, आस्तां बन्धे इत्यपिशब्दार्थः, यथाप्रवृत्तसंक्रमो भवति । इयमत्र भावना-सर्वेषामपि संसारस्थानामसुमतां ध्रुवबन्धिनीनां १५ बन्धे, परावर्तमानप्रकृतीनां तु स्वस्वभवबन्धयोग्यानां बन्वेऽबन्धे वा यथाप्रवृत्तसंक्रमो भवति ॥ ६९॥
(उ०)-इदानीं गुणसंक्रमस्य लक्षणमाह-'अपूर्वकरणादयः'-अपूर्वकरणस्थानकप्रभृतयोऽबध्यमानानामशुभप्रकृतीनां सम्बन्धि कर्मदलिकं प्रतिसमयमसङ्खयेयगुणश्रेण्या यद्वध्यमानासु प्रकृतिषु प्रक्षिपन्ति स गुणसंक्रमः, गुणेन प्रतिसमयमसङ्खयेयलक्षणेन गुणकारेण संक्रमो गुणसंक्रम इति । तथाहि मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोदशानाम् ,अनन्तानुबन्धितिर्यगायुरुद्योतवर्जानां
सासादनयोग्यानामेकोनविंशतिप्रकृतीनाम् ,तथा मध्यमाष्टकपायास्थिराशुभायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसङ्ख्यया षट्चत्वा| रिंशत्प्रकृतीनामशुभानामबध्यमानानामपूर्वकरणादारभ्य गुणसंक्रमो भवति । मिथ्यात्वमनन्तानुबन्धिनश्चापूर्वकरणगुणस्थानादागेवाविरतसम्यग्दृष्टयादयः क्षपयन्ति । आतपोद्योतयोश्च शुभत्वान्न गुणसंक्रमः, अशुभप्रकृतीनामेव तत्संभवात् । आयुषां च परप्रकृती सं| क्रम एव नेति मिथ्यात्वादिप्रकृतीनामिह वर्जनम् । निद्राद्विकोपघाताशुभवर्णादिनक्कहास्यरतिभयजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यव
॥१०६॥ च्छेदादारभ्य गुणसंक्रमो ज्ञातव्यः । अपूर्वकरणादयः-अपूर्वकरणप्रवृत्तप्रभृतयोऽशुभप्रकृतीनामबध्यमानानां दलिकमसङ्खयेयगुणश्रेण्या बध्यमानामु प्रकृतिषु यत्प्रक्षिपति स गुणसंक्रम इत्यपरोऽर्थः । तेन क्षपणकाले मिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्धिनामप्यपूर्वकरणरूपा-11d
DATES
POSERS2
Prachine