________________
कर्मप्रकृतिः ॥१०४॥
पिंण्यवसर्पिणीभिरपहारः । अयं विध्यातसंक्रमः प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः ॥ ६८ ॥
(उ०) - तदेवमुक्त उद्वलनासंक्रमः, अथ विध्यातसंक्रमलक्षणमाह — यासां प्रकृतीनां गुणप्रत्ययतो भवप्रत्ययतो वा बन्धो न भवति तासां विध्यातसंक्रमोऽवसेयः । कास्तादृश्यः प्रकृतयः कुत्र च तासां विध्यातसंक्रम इति चेद्, उच्यते - इह या मिथ्यादृष्टिगुणस्थानान्ता षोडश प्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बन्धो न भवति, सासादनान्तानां पञ्चविंशतिप्रकृतीनां सम्यग्मिध्यादृष्ट्यादिषु, अविरतसम्यग्दृष्टयन्तानां दशानां देशविरतादिषु, देशविरतान्तानां चतसृणां प्रमत्तादिषु प्रमत्तान्तानां षण्णामप्रमत्तादिषु गुणप्रत्ययतो बन्धो न भवति, ततस्तासां तत्र तत्र विध्यातसंक्रमः प्रवर्तते । तथा वैकियसप्तकदेवद्विकनरकद्विकैकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणापर्याप्तातपलक्षणा विंशतिप्रकृतीनरयिकास्तद्बन्धहेतुमिथ्यात्वादिसत्त्वेऽपि भवप्रत्ययादेव न बनन्ति । नरकद्विकदेवद्विकवैक्रियसप्तकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधारणलक्षणाः सप्तदश प्रकृतीः समस्ता अपि देवा भवप्रत्ययतो न बभन्ति, एकेन्द्रियजात्यात| पपस्थावरनामानि तु सनत्कुमारादयः संहननषट्कानाद्यसंस्थानपञ्चकनपुंसकवेदमनुजद्विकौदारिकंसप्तकतिर्यगेकान्तप्रायोग्य स्थावरादिप्रकृतिदशकनरकद्विकातपोद्योतापर्याप्तदुर्भगादित्रिक नीचैगोत्राप्रशस्तविहायोगतिप्रकृतीरसङ्ख्येयवर्षायुषः । ये च यद्यदबन्धकास्तेषां तास्ताः प्रकृतयो विध्यातसंक्रमयोग्याः । दलिकप्रमाणं निरूपयति- 'अंगुल' इत्यादि । यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रकृतिषु प्रक्षिप्यते तेन मानेन शेषस्य दलिकस्यापहारे क्रियमाणेऽङ्गुलस्यासङ्ख्येयतमेन भागेनापहारो भवति । यावत्प्रमाणं प्रथमसमयकर्मदलिकं विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते तावत्प्रमाणैः खण्डैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपद्रियमाणमेकतस्तदेकखण्डं दलिकराशिरन्यतश्चैक आकाशप्रदेश इत्येवमङ्गुलमात्रक्षेत्रासङ्ख्येयतमभागवृत्त्याकाशप्रदेशैरपहियते । इयं क्षेत्रतो निरूपणा ।
संक्रमकरणे प्रदेश
संक्रमः ।
॥१०४॥