SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ___ (मलय०) तदेवमुद्वलनासंक्रम उक्तः, सम्प्रति विध्यातसंक्रमस्य लक्षणमाह-'जासि' ति-यासां प्रकृतीनां गुणप्रत्ययतो भवप्रत्य-12 है| यतो वा बन्धो न भवति तासां विध्यातसंक्रमोऽवसेयः । कास्ता भवप्रत्ययतो गुणप्रत्ययतो वा बन्धं नायान्तीति चेद् , उच्यते-इह या | मिथ्यादृष्टिगुणस्थानान्ताः षोडश प्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बन्धो न भवति, सासादनान्तानां पञ्चविंशतिप्रकृतीनां | सम्यग्मिथ्यादृष्टयादिषु, अविरतसम्यग्दृष्टयन्तानां दशानां देशविरतादिषु, देशविरतान्तानां च चतसृणां प्रमत्तादिषु, प्रमत्तान्तानां पण्णा| मप्रमत्तादिषु गुणप्रत्ययतो बन्धो न भवति । ततस्तासां तत्र तत्र विध्यातसंक्रमः प्रवर्त्तते । तथा वैक्रियसप्तकदेवद्विकनरकद्विकैकेन्द्रि| यद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणापर्याप्तातपलक्षणानां विंशतिप्रकृतीनां नैरयिका मिथ्यात्वादिरूपे हेतौ विद्यमा नेऽपि भवप्रत्ययतो बन्धका न भवन्ति । नरकद्विकदेवद्विकवैक्रियसप्तकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधारणानां सप्तदशप्रकृतीनां | समस्ता अपि देवा भवप्रत्ययतो बन्धका नोपजायन्ते, एकेन्द्रियजात्यातपस्थावरनाम्नामपि तु सनत्कुमारादयः, संहननषद्कसमचतु-1 रस्रवर्जसंस्थानपञ्चकनपुंसकवेदमनुजद्विकौदारिकसप्तकतिर्यगेकान्तयोग्यस्थावरादिप्रकृतिदशकदुर्भगादित्रिकनीचैर्गोत्राप्रशस्तविहायोगतिप्रकृतीनां त्वसंख्येयवर्षायुषः, एवं यस्य यस्य यत् यत् कर्म भवप्रत्ययतो गुणप्रत्ययतो वा न बन्धमायाति तत्तत्तस्य तस्य विध्यातसंक्रमयोग्यं वेदितव्यम् । दलिकप्रमाणनिरूपणार्थमिदमाह-'अंगुल'इत्यादि । यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रक| तिषु प्रक्षिप्यते तेन मानेन शेषस्य दलिकस्यापहारे क्रियमाणे अडगुलस्यासंख्येयवमेन भागेनापहारो भवति । इयमत्र भावना-यावत्प्रमाण प्रथमसमये कर्मदलिकं विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते तावत्प्रमाणैः खण्डैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपड्रियमाणमगुलमात्रस्य क्षेत्रस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्संख्याकैरपड्रियते । इदं क्षेत्रतो निरूपणम् । कालतस्त्वसंख्येयाभिरुत्स DOOOOOOOOOPS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy