SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ रव्येयगुणनया श्रेण्या प्रक्षिपप्ति । तद्यथा-प्रथमसमये स्तोकम् , द्वितीयसमयेऽसंख्येयगुणम् ,तृतीयसमयेऽसंख्येयगुणम् , एवं यावच्चरमस| मयः । एवममुना प्रकारेण परप्रकृतौ प्रक्षिप्यमाणानां प्रकृतीनाम् , अपिः-संभावने, चरमसमये यः कृत्स्नसंक्रमो भवति स सर्वसंक्रमः। (5एतेन सर्वसंक्रमस्य लक्षणं प्रतिपादितं द्रष्टव्यम् ॥६५।। श्री (उ०) एतद्विधिवक्तव्यतामाह-द्विचरमस्थितिखण्डाच्चरमस्थितिखण्डं स्थित्यपेक्षयाऽसंख्येयगुणम् । तथा तस्य चरमखण्डस्य यत्प्रदे शाग्रं तदुदयावलिकागतं मुक्त्वा शेषं सर्व परस्थाने-परप्रकृतिष्वनुसमयमसंख्येयगुणया श्रेण्या प्रक्षिपति । तथाहि-प्रथमसमये स्तोकम् , द्वितीयसमयेऽसंख्येयगुणम् , तृतीयसमयेऽसंख्येयगुणम् , एवं यावच्चरमसमयः । एवममुना प्रकारेण परप्रकृती प्रक्षिप्यमाणानाम्, अपिः संभावने, चरमसमये कृत्स्नो निरवशेषः संक्रमो भवति स सर्वसंक्रमोऽबसेयः। एतेन सर्वसंक्रमो लक्षितः ॥६५॥ ___ अण्णातो वि पगतीतो उव्वलमाणीतो अत्थि तासिं अतिदेसो किरति इमाए गाहाएएवं मिच्छद्दिहिस्स वेयगं मिस्सगं तओ पच्छा। एगिदियस्स सुरदुगमओ सवेउव्विणिरयदुगं ॥६६॥ (०)-मिच्छादिहि अट्ठावीससंतकम्मितो पुब्वं सम्मत्तं एतेण विहिणा उव्वलेति। ततो सम्माभिच्छतं ते(गणेव विहिणा। एगिदियस्स सुरदुर्ग' एगिदिओ पंचाणउतिसंतकम्मिओ णामकम्स्स तिउत्तरातोसतातो आहार सत्तगे तित्थगरणामे य फेडिए सेसा पंचाणउती होति । एयातो पंचाणउतीतो देवगतिं देवाणुपुब्विं च एतेण विहिणा जुगवं उठवलेइ । 'अतो सवेउब्विणिरयदुर्ग पच्छा वेउब्बितसत्तगंणिरतदुगं च जुगवं उबलेति ॥६६॥ (मलय०)-सम्प्रति वेदकसम्यक्त्वादीनामुद्वलनासंक्रमकारकानाह-'एवं'ति-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिःप्रथमत एवमुपदर्शितेन
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy