SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥९८॥ ENDERS आकाशप्रदेशः, एवं तुल्यवदुभयापहारे क्रियमाणे चरमस्थितिखण्डमङ्गुलमात्रक्षेत्रगतप्रदेशराशेरसंख्येयतमेन भागेनापहृतं भवति, चर| मस्थितिखण्डे द्विचरमस्थितिखण्डसत्कपरस्थानप्रक्षिप्यमाणदलिकपुञ्जप्रमाणानि खण्डान्यङ्गुलासंख्येयतमभागवाकाशप्रदेशप्रमाणानि संक्रमकरणे | भवन्तीत्यर्थः । यावत्प्रमाणं पुनर्द्विचरमस्थितिखण्डसत्कं कर्मदलिकं स्वस्थाने संक्रम्यते तावत्प्रमाणस्य चरमस्थितिखण्डकर्मदलिकस्य | अनुभागप्रतिसमयमपहारे तच्चरमं स्थितिखण्डं पल्योपमासंख्येयभागमात्रगतैः समयनिलपीभवति ॥६०॥ संक्रमः तत्थ उब्वलणसंकमस्स लक्खणं भण्णतिआहारतणू भिन्नमुहुत्ता अविरइगओ पउव्वलए ।जा अविरइओत्ति उव्वलइ पल्लभागे असंखतमे ॥६१॥ __ (चू०)-आहारगसंतकम्मिगो अविरतिं गतो अंतोमुहत्तातो परतो आहारगं उव्वलितुमाढत्तो उव्वलेति । के- 16| वतितेणं कालेणं? भण्णति-जाव अविरतोत्ति ताव । अविरतिकालस्स अणंतत्तातो तं णियमेति-'पल्लभागे असंखतमें त्ति-पलितोवमस्स असंखेजतिभागेण सव्वं उबलेति ॥६॥ __ (मलय०) तदेवमुक्तमुद्वलनासंक्रमलक्षणम् , संप्रत्येतदेव लक्षणं योजयन्नाहारकसप्तकस्योद्वलनासंक्रमकारकमाह-'आहार' ति-आ| हारकसप्तकसत्कर्माऽविरति-विरत्यभावं गतः सन् अन्तर्मुहूर्तात्परत आहारकतनूम् , इहाहारकग्रहणेनाहारकसप्तकं गृहीतं द्रष्टव्यम् । तत आहारकसप्तकं 'पउव्वलए' ति प्रोद्वलयति । कियता पुनः कालेनोद्वलयतीति चेद् , उच्यते-यावदविरतिस्तावदुद्वलयति । एतेनाविरतिप्रत्यया आहारकसप्तकस्योद्वलना प्रतिपादिता द्रष्टव्या । अविरतिश्चानन्तमपि कालं यावद् भवति, ततो नियममाह-'पल्लभागे असंखतमे पल्योपमस्यासंख्येयतमेन भागेन सर्वमुद्वलयतीत्यर्थः ॥६१॥ DesOSGee ॥९८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy