________________
DANGINEERINCE
पल्योपमासंख्येयभागलक्षणो द्रष्टव्यः। तच्चोत्कीर्णदलिकं किश्चित्स्वस्थाने किञ्चिच्च परस्थाने प्रक्षिप्यते । तत्र कुत्र कियान् प्रक्षेप इति | चेद् , उच्यते-प्रथमे स्थितिखण्डे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिप्यते तत्सर्वस्तोकम् । यत्स्वस्थान एवाधस्तात् क्षिप्यते तत्ततोऽसंख्येयगुणम् । ततोऽपि यद् द्वितीये समये स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणम् । परप्रकृतिषु पुनः प्रक्षिप्यमाणं प्रथमसमयपरस्थानप्रक्षिताद्विशेषहीनम् । ततोऽपि यत्तृतीये समये स्वस्थाने प्रक्षिप्यते तद् द्वितीयसमयस्वस्थानप्रक्षिप्तादसंख्येयगुणम् । यत्पुनः परप्रकृतिषु प्रशि-१६ प्यते तद् द्वितीयसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । एवं तावद्वक्तव्यं यावदन्तर्मुहूर्त्तचरमसमयः। एवं सर्वेष्वपि स्थितिखण्डेषु द्विचरमस्थितिखण्डान्तेषु भावनीयम् । चरमस्थितिखण्डं द्विचरमस्थितिखण्डात् स्थित्यपेक्षयाऽसंख्येयगुणं प्रथमस्थितिखण्डाच्च दलिकापेक्षयाऽसंख्येयगुणम् , स्थित्यपेक्षयाऽसंख्येयभागकल्पम् । उक्तं च पञ्चसंग्रहे-" असंखगुणयं अंतिमयं" । अस्य प्रतीकस्य व्याख्या यथा अन्तिमखण्डं द्विचरमखण्डात् स्थित्यपेक्षयाऽसंख्येयगुणम् । तुशब्दस्याधिकार्थसंसूचनादन्तिमस्थितिखण्डं प्रथमस्थितिखण्डापेक्षया दलिकमधिकृत्यासंख्येयगुणं स्थित्यपेक्षया त्वसंख्येयभागकल्पमिति । तदपि चरमस्थितिखण्डमन्तर्मुहूर्तेन कालेनोत्कीर्यते, तस्य च यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेषं सर्वमपि परस्थाने प्रक्षिप्यते । तच्च प्रथमसमये स्तोकं द्वितीयादिसमयेषु यथोत्तरमसंख्येयगुणं प्रक्षिप्य| ते यावच्चरमसमयः । चरमसमये तु यत्परप्रकृतिषु दलिकं प्रक्षिप्यते स सर्वसंक्रम उच्यते, संक्रमार्हस्य सर्वस्यापि निर्लेपात् । तत्र याव
प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं चरमसमये परप्रकृतिषु संक्रम्यते तावत्प्रमाणं चेचरमस्थितिखण्डस्य कर्मदलिकं प्रतिसम| यमपड्रियते तदा तच्चरमं स्थितिखण्डमसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लिप्यते । इयं कालतो मार्गणा । क्षेत्रतस्त्वियं मार्गणा-यावप्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं परप्रकृतिषु संक्रम्यते तावत्प्रमाणमेकत्र चरमस्थितिखण्डकर्मदलिकमपहियते, अन्यत्रैक
FARIDIODISIONSOME