________________
कर्मप्रकृतिः |
॥९७॥
दलिकं - कर्मद्रव्यमन्यप्रकृतिं नीयते स्वभिन्नपतद्ग्रहप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः । सामान्यलक्षणप्रतिपादनमेतत् । स. पञ्चधः - उद्वलनसंक्रमो विध्यातसंक्रमो यथाप्रवृत्तसंक्रमो गुणसंक्रमः सर्वसंक्रमश्चेति । भेदप्रतिपादनमेतत् । तत्र 'यथोद्देशं निर्देशः ' | इत्यादावुद्वलनासंक्रमलक्षणमभिधीयते — इह सम्यक्त्वसम्यग्मिथ्यात्वसुरद्विकनरकद्विकवैक्रि यसप्तकाहारकसप्तकमनुजद्विकोच्चैर्गोत्र लक्षणानां त्रयोविंशतिप्रकृतीनां प्रथमतः पल्योपमासङ्ख्येयमागमात्रं स्थितिखण्डमन्तर्मुहूर्त्तेन कालेनोत्कीर्यते, घनदलान्वितस्याल्पदल| स्योत्तारणमुत्किरणं तदेव चोद्वलनं व्यपदिश्यते । ततो द्वितीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रमेवान्तर्मुहूर्तेन कालेनोत्कीर्यते । केवलं प्रथमात् स्थितिखण्डाद् विशेषहीनम् । ततोऽपि तृतीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रं द्वितीयात् स्थितिखण्डाद्विशेषहीनमन्तर्मुहूर्त्तेन कालेनोत्कीर्यते । एवं प्रत्येकमन्तर्मुहूर्त्तेन कालेनोत्कीर्यमाणानि पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वपूर्वस्थितिखण्डापेक्षया विशेषहीनानि विशेषहीनानि तावद्वाच्यानि यावद् द्विचरमं स्थितिखण्डम् । एतानि च सर्वाण्यनन्तरोपनिधया स्थित्यपेक्षया पूर्वपूर्वस्थितिखण्डाद्यथोत्तरमुत्तराणि विशेषहीनानि । परंपरोपनिधया च प्रथमस्थितिखण्डापेक्षया कानिचित्स्थितिखण्डान्यसंख्येयभागहीनानि कानिचित्संख्येय भागहीनानि कानिचित्संख्येयगुणहीनानि कानिचिद संख्येयगुणहीनानीत्येवं चतुःस्थानपतितानि । प्रदेशपरिमाणचिन्तायां त्वनन्तरोपनिधया पूर्वपूर्वस्थितिखण्डादुत्तरोत्तरस्थितिखण्डानि यथाक्रमं विशेषाधिकदलिकानि । परंपरो|पनिधया तु प्रथमात्स्थितिखण्डाद्दलिकमपेक्ष्य किञ्चित्स्थितिखण्डमसंख्येयभागाधिकं किञ्चित्संख्येयभागाधिकं किञ्चित्संख्येयगुणाधिकं किञ्चिदसंख्येयगुणाधिकमित्येवं चतुःस्थानपतितानि । स्थितिखण्डानामुत्किरणविधिश्वायं - प्रथमसमये स्तोकं दलिकमुत्कीर्यते, द्वितीयसमये ततोऽसंख्येयगुणम्, ततोऽपि तृतीयसमयेऽसंख्येयगुणम्, एवं तावद्वाच्यं यावत्स्वस्वान्तर्मुहूर्त्तचरमसमयः । गुणकारश्चात्र
संक्रमकरणे
अनुभागसंक्रमः ।
॥९७॥