SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ SHOCEROSORRENGra तीयसमये यत्स्वस्थाने प्रक्षिप्यते तद् द्वितीयसमयस्वस्थानप्रक्षिप्तादसंख्येयगुणम् । यत्पुनः परप्रकृतिषु प्रक्षिप्यते तद् द्वितीयसमयपरस्था-1301 | नप्रक्षिप्ताद्विशेषहीनम् । एवं तावद्वाच्यं यावदन्तर्मुहूर्तचरमसमयः । एवं सर्वेष्वपि स्थितिखण्डेषु द्विचरमस्थितिखण्डपर्यवसानेषु वाच्यम् ।। | सम्प्रति चरमखण्डस्य विधिरुच्यते चरमस्थितिखण्डं द्विचरमस्थितिखण्डापेक्षयाऽसंख्येयगुणं तदपि चरमस्थितिखण्डमन्तर्मुहूर्तेन कालेनो-TE | त्कीर्यते । तस्य च यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेषं सर्व परस्थाने प्रक्षिपति । तच्चैव-प्रथमसमये स्तोकम्, द्वितीये समयेऽसं-15 ख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं यावच्चरमसमयः। चरमसमये तु यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसंक्रम | उच्यते । तत्र यावत्प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं चरमसमये परप्रकृतिषु संक्रमयति, तावत्प्रमाणं चेञ्चरमस्थितिखण्डस्य क-1) मदलिकं प्रतिसमयमपहियते तर्हि तच्चरमं स्थितिखण्डमसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिर्निपीभवति । एषा कालतो मार्गणा । क्षेत्रतः | पुनरियं-यावत्प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं परप्रकृतिषु संक्रमयति तावत्प्रमाणं कर्मदलिकं चरमस्थितिखण्डस्य सत्कमेक त्रापहियते, अन्यत्र एक आकाशप्रदेशः, एवमपहियमाणं चरमस्थितिखण्डमङ्गुलमात्रक्षेत्रगतप्रदेशराशेरसंख्येयतमेन भागेनापट्टियते ।। | अङ्गुलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्ति चरमस्थितिखण्डे यथोक्तप्रमाणानि खण्डानि भवन्तीत्यर्थः। यावत्प्रमाणं पुन| विचरमस्थितिखण्डसत्क कर्मदलिकं स्वस्थाने संक्रमयति तावत्प्रमाणं चेञ्चरमस्थितिखण्डस्य कर्मदलिकं प्रतिसमयमपहियते तर्हि तच्चर| में स्थितिखण्डं पल्योपमासंख्येयभागमात्रगतैः समयनिर्लेपीभवति ॥६॥ है (उ०) तदेवमभिहितोऽनुभागसंक्रमः, सम्प्रति प्रदेशसंक्रमो वक्तुमवसरप्राप्तः, तत्र चामी अर्थाधिकाराः-सामान्यलक्षणम् , भेदः, | साधनादिप्ररूपणा, उत्कृष्टप्रदेशसंक्रमस्वामी, जघन्यप्रदेशसंक्रमस्वामी च । तत्र सामान्यलक्षणं भेदं च प्रतिपादयन्नाह-यत्संक्रमयोग्यं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy