SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ न्तर्मुहूर्तेन कालेनोत्किरति । ततोऽपि तृतीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रम्, द्वितीयात् स्थितिखण्डात् विशेषहीनमन्तमुहूर्तेन | कर्मप्रकृतिः कालेनोत्किरति । एवं पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वस्मात् पूर्वस्मात् स्थितिखण्डाद्विशेषहीनानि तावद्वाच्यानि यावत् संक्रमकरणे | द्विचरमं स्थितिखण्डम् । सर्वाण्यपि च तानि प्रत्येकमन्तमुहर्तेन कालेनोत्कीर्यन्ते । इह च द्विधा प्ररूपणा-अनन्तरोपनिधया परंपरोपनि अनुभाग॥१६॥ | धया च । तत्रानन्तरोपनिधया प्रथमस्थितिखण्डस्य प्रभूता स्थितिः । ततो द्वितीयस्य विशेषहीना। ततोऽपि तृतीयस्य विशेषहीना । लासंक्रमः। एवं यावद् द्विचरमं स्थितिखण्डम् । कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परंपरोपनिधया क्रियते तत्र प्रथमस्थितिखण्डापेक्षया कानि| चित् स्थितिखण्डानि स्थित्यपेक्षयाऽसंख्येयभागहीनानि, कानिचित्संख्येयभागहीनानि, कानिचित् संख्येयगुणहीनानि, कानिचिदसं-12 | ख्येयगुणहीनानि । यदा तु प्रदेशपरिमाणं चिन्त्यते तदा प्रथमस्थितिखण्डात् द्वितीयं स्थितिखण्डं दलिकापेक्षया विशेषाधिकम् । ततोNऽपि तृतीयं विशेषाधिकम् , एवं तावद्वाच्यं यावद् द्विचरमं स्थितिखण्डम् । इयमनन्तरोपनिधा । परंपरोपनिधा पुनरियं प्रथमात् स्थिति| खण्डाद्दलिकमपेक्ष्य किंचिदसंख्येयभागाधिकम् , किंचित्संख्येयभागाधिकम् , किंचित्संख्येयगुणाधिकम् , किंचिदसंख्येयगुणाधिकम् । | स्थितिखण्डानां चोत्करणविधिरयं-प्रथमसमये स्तोकं दलिकमुत्किरति, द्वितीये समयेऽसंख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् । | एवं तावद्वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । गुणकारश्चात्र पल्योपमासंख्येयभागलक्षणो वेदितव्यः । एवं सर्वेष्वपि स्थितिखण्डेषु द्रष्टव्यम्। दलिकं चोत्कीर्य व प्रक्षिप्यत इति चेद् , उच्यते-किंचित्स्वस्थाने किंचित्परस्थाने । तत्र कियत्प्रक्षिप्यत इति विशेषतो निरूप्यते-प्रथमे ॥९६ ॥ | स्थितिखण्डे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति तत् स्तोकम् । यत् स्वस्थान एवाधस्तात्प्रक्षिप्यते तत्ततोऽसंख्येयगुणम् । ततो| ऽपि द्वितीयसमये यत्स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणम् । परप्रकृतिषु पुनर्यत् प्रक्षिप्यते तत्प्रथमसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । तृ-11
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy