SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ भणितो अणुभागसंकमो, इयाणिं पदेससंकमो, तस्स इमे अत्याहिगारा । तंजहा-सामण्णलकवणं भेदो सादिअणादिपरूवणा उक्कोसपदेससंकमसामी जहन्न पदेससंकमसामी। तत्थ सामण्णलक्षणपरूवणं जं दलियमन्नपगई णिज्जइ सो संकमो पएसस्स। उव्वलणो विज्झाओ अहापवत्तो गुणो सव्वो॥६॥ | (चू०)-'जं दलियं' इति । जं संकमपातोग्नं कम्मदव्वं 'अण्णपगति णिजति'-अण्णपगतिसभावेण परिणा| मिजति जं भणियं होति, 'सो संकमो पदेसस्स'-सो पदेससंकमो वुच्चति।गतं लक्षणं । इदाणिं भेदो-'उचलणो विज्झाओ अहापवत्तो गुणो सम्वो' इति। उव्वलणसंकमो विज्झातसंकमो, अहापब्वत्तसंकमो, गुणसंकमो | सव्वसंकमो य । एएहिं पंचहिं पगारेहिं कम्मदलितं अण्णपति णिजति ॥१०॥ (मलय०)-तदेवमुक्तोऽनुभागसंक्रमः सम्प्रति प्रदेशसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः, तद्यथा-सामान्यलक्षणं, भेदः, | साधनादिप्ररूपणा, उत्कृष्टप्रदेशसंक्रमस्वामी, जघन्यप्रदेशसंक्रमस्वामी च । तत्र सामान्यलक्षणप्रतिपादनार्थमाह-'जंति' । यत्संक्रमप्रायोग्यं दलिकं-कर्मद्रव्यं अन्यप्रकृति नीयते-अन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः। उक्तं सामान्यलक्षणम् । सम्प्रति भेद-1Y माह-'उव्वलणो' इत्यादि । प्रदेशसंक्रमः पश्वधा । तद्यथा-उद्वलनासंक्रमः, विध्यातसंक्रमः, यथाप्रवृत्तसंक्रमः, गुणसंक्रमः, सर्वसंक्रमश्च । तत्र 'यथोद्देशं निर्देशः' इति न्यायात्प्रथमत उद्वलनासंक्रमस्य लक्षणमभिधीयते-इहानन्तानुबन्धिचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्व-12 | देवद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकमनुजद्विकोच्चैर्गोत्रलक्षणानां सप्तविंशतिप्रकृतीनां प्रथमतः पल्योपमासंख्येयभागमानं स्थितिखण्डमन्तर्मुहूर्तेन कालेनोकिरति । ततः पुनरपि द्वितीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रमेव केवलं प्रथमात् स्थितिखण्डात् विशेषहीनम-19
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy