________________
( मलय ० ) - तदेवं जघन्यानुभागसंक्रमस्वामित्वप्रतिपादनाय भावना कृता । सम्प्रति जघन्यानुभागसंक्रमस्वामित्वमेवाह - 'अंतरकरण' त्ति । अन्तरकरणादूर्ध्वं घातिकर्मप्रकृतीनां मध्ये यस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्रम उक्तः तस्यास्तत्र जघन्यानुभागसंक्रमोऽपि वेदितव्यः । एतदुक्तं भवति - अन्तरकरणे कृते सति अनिवृत्तिवाद रसंपरायः क्षपको नवनोकषायसंज्वलनचतुष्टयानां क्षप णक्रमेण जघन्यस्थितिसंक्रमणकाले जघन्यानुभागसंक्रमं करोति । ज्ञानावरणपञ्चकान्तरायपञ्चकचक्षुरचक्षुरखधिकेवलदर्शनावरणनिद्राप्रचलारूपदर्शनावरणषट्कानां क्षीणकषायः समयाधिकावलिकाशेपायां स्थितौ वर्तमानो जघन्यानुभागसंक्रमं करोति । 'नियम' इत्यादि । दर्शनमोहनीयद्विकस्य सम्यक्त्वसम्यग्मिथ्यात्वरूपस्य क्षपणकाले निजकचरमरसखंडे - आत्मीयात्मीयचरमरस खंड संक्रमणकाले जघन्यानुभागसंक्रमो भवति ||५७||
(उ०)- अथ जघन्यानुभागसंक्रमस्वामित्वमेवाह - अन्तरकरणादुपरि घातिकर्मप्रकृतीनां मध्ये यस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्रम उक्तस्तस्यास्तत्र जघन्यानुभागसंक्रमोऽपि वक्तव्यः । इदमुक्तं भवति - अन्तरकरणे कृते सत्यनिवृत्तिवादरसंपरायः क्षपको नोकषायनवकसंज्वलनचतुष्टयानां क्षपणक्रमेण जघन्यस्थितिसंक्रमणकाले जघन्यमनुभागं संक्रमयति । ज्ञानावरणपञ्चकान्तरायपञ्चकस्त्यानर्द्धित्रिकवर्जितदर्शनावरणषट्कानां क्षीणकषायः समयाधिकावलिकाशेषायां आवलिकाऽसंख्येयभागाधिकावलिकाद्विकशेषायां स्थितौ वर्तमानो जघन्यमनुभागं संक्रमयति । दर्शनमोहनीयद्विकस्य - सम्यक्त्वसम्यग्मिथ्यात्वरूपस्य क्षपणकाले निजकचरमरसखण्डे-स्वस्वचरमरसखण्डसंक्रमणकाले जघन्यानुभागसंक्रमो भवति ।। ५७ ।।
आऊण जहन्नठि बंधिय जावत्थि संकमो ताव । उव्वलणतित्थसंजोयणा य पढमालियं गंतुं ॥ ५८ ॥