SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ (मलय०)-इह 'संकमई आमुहुत्तता' इति वचनात्सम्यग्दृष्टयो मिथ्यादृष्टयो वा किलान्तर्मुहूर्तात्परतः सर्वप्रकृतीनामनुभागघातं | | कुर्वन्तीति प्रसक्तं तत्रापवादमाह–'सम्मद्दिहि' ति-इह याः शुभप्रकृतयः सातवेदनीयदेवद्विकमनुजद्विकपश्चेन्द्रियजातिप्रथमसंस्थानप्रथमसंहननौदारिकवैक्रियसप्तकाहारकसप्तकतैजससप्तक शुभवर्णाद्येकादशकागुरुलघुपराघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोच्चैोत्रलक्षणाः षट्षष्टिसंख्यास्तासां सर्वासामपि शुभमनुभागमुत्कर्षतो वे षट्पष्टी सागरोपमाणां यावत्सम्यग्दृष्टिर्न | विनाशयति । असम्यग्दृष्टिः-मिथ्यादृष्टिः,अपिशद्वात्सम्यग्दृष्टिश्च सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागंन विनाशयति क्षपणं-क्षपण| कालं वर्जयित्वा । एतदुक्तं भवति-क्षपणकाले सम्यग्दृष्टिरपि सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागं विनाशयति, तेन क्षपणकालो वय॑ते । तथा चोक्तं पञ्चसंग्रहमूलटीकायाम्-"सम्यग्दृष्टयो मिथ्यादृष्टयश्च सम्यक्त्वसम्यग्मिथ्यात्वयोर्नोत्कृष्टमनुभागं विनाशयन्ति, || अपि तु क्षपकः सम्यग्दृष्टिविनाशयति उभयोरपि दृष्टद्योरिति”। मिथ्यादृष्टिः पुनः सर्वासामपि शुभप्रकृतीनां संक्लेशेनाशुभप्रकृतीनां तु विशुद्धयाऽन्तर्मुहूर्तात्परत उत्कृष्टमनुभागमवश्यं विनाशयति ॥५६॥ | (उ०) इह 'संकमइ आमुहुत्ता' इति यत्प्रागुक्तं, तत्र सम्यग्दृष्टयो मिथ्यादृष्टयो वाऽन्तर्मुहूर्त्तानन्तरं सर्वप्रकृतीनामनुभागमवश्यं मन्तीति प्रसज्यते तदपवदनाह-इह याः शुभाः प्रकृतयः सातवेदनीयसुरद्विकमनुजद्विकपश्चेन्द्रियजात्याद्यसंस्थानसंहननौदारिकसप्तक वैक्रियसप्तकाहारकसप्तकतैजससप्तकशुभवर्णाघेकादशकागुरुलघुपराघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रदशकनिर्माणतीर्थकरोच्चैोंत्र५. लक्षणाः षट्षष्टिसंख्यास्तासां सर्वासामपि शुभमनुभागमुत्कर्षतो द्वेषषष्टी सागरोपमाणां यावत्सम्यग्दृष्टिन हन्ति न विनाशयति । असम्य ग्दृष्टिः-मिथ्यादृष्टिः,अपिशब्दात्सम्यग्दृष्टिश्च, सम्यक्त्वसम्यम्मिथ्यात्वयोरुत्कृष्टमनुभागं न विनाशयति क्षपणं-क्षपणकालं बर्जयित्वा । EDIOSOROCEEDDY EDIOPSISTSIC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy