________________
22515
णीयगोयाणं एतासिं तिसाए कम्मपगडीणं असणिपंचिंदियअणुभागातो केवलिणो अणुभागो अनंतगुणो भवति ॥ ५५ ॥
( मलय ० ) - तदेवमुक्त उत्कृष्टानुभाग संक्रमस्वामी, सम्प्रति जघन्यानुभागसंक्रमस्वामिनं प्रतिपिपाद यि पुर्जघन्यानुभागसंक्रमसंभवपरिज्ञानार्थमाह – 'खवगस्स' त्ति । यावदद्याप्यन्तरकरणं न विधीयते तावत्क्षपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां संबन्धी अनुभागः सूक्ष्मैकेन्द्रियसत्काद नुभागसत्कर्मणोऽनन्तगुणो भवति । अन्तरकरणे तु कृते सति सूक्ष्मैकेन्द्रियस्यापि सत्कादनुभागसत्कर्मणो हीनो भवति । तथा शेषाणामप्यघातिनी नामशुभप्रकृतीनामसातवेद नीयप्रथमवर्जसंस्थानप्रथमवर्जसंहननकृष्णनील दुरभिगन्धतिक्तकदुगुरुकर्कशरूक्षशीतोपघाताप्रशस्तविहायोगति दुर्भगदुःखरानादेया स्थिराशुभापर्याप्तायशः कीर्ति नीचैर्गोत्र लक्षणानां त्रिंशत्संख्यानां केवलिनोऽनुभागसत्कर्म असंज्ञिपञ्चेन्द्रियसंत्काद नुभागसत्कर्मणोऽनन्तगुणं वेदितव्यम् । तथा च सति सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां जघन्यानुभागसंक्रमसंभवः क्षपकस्यान्तरकरणे कृते सति वेदितव्यः । शेषाणां त्वशुभप्रकृतीनामुक्तरूपाणां जघन्यानुभागसंक्रमसंभवः न सयोगिकेवलिनि किंतु हतसत्कर्मणः सूक्ष्मैकेन्द्रियादेः, तस्यैव वक्ष्यमाणत्वात् ।। ५५ ।।
(उ० ) - तदेवमुक्त उत्कृष्टानुभागसंक्रमस्वामी । अथ जघन्यानुभागससंक्रमखामिनमभिधित्सुर्जघन्यानुभागसंक्रमसंभवज्ञानोपायमाहयावदन्तरकरणं न विधीयते तावत्क्षपकस्य सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां संबन्ध्यनुभागः 'सूक्ष्मकर्मण उपरि सूक्ष्मैकेन्द्रियसत्कादनुभागसत्कर्मणोऽनन्तगुणो भवति । अन्तरकरणे तु कृते सति सूक्ष्मैकेन्द्रियसम्बन्धिनोऽप्यनुभागसत्कर्मणो हीनो भवति । तथा शेषाणामप्यघातिनीनामशुभप्रकृतीनामसातवेद नीयानाद्यसंस्थान संहननकृष्णनीलदुरभिगन्धतिक्तक दुगुरुकर्कश रूक्षशीतो