________________
aa
| यरूपाणां चतुर्विंशतिसंख्यानां विशुद्धी, अशुभानां च - स्त्यानर्द्धित्रिकासात वेदनीयदर्शनमोहनीयत्रितयाप्रत्याख्यानप्रत्याख्यानावरणकषायनरकायुर्नरकद्विकतिर्यग्विकपञ्चेन्द्रिय जातिवर्ज शेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहननाशुभवर्णादिनवकाप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोत्ररूपाणां षट्पञ्चाशत्संख्यानां संक्लेशे उत्कृष्टोऽनुभागबन्धो लभ्यते । शेषकालं त्वनुत्कृष्टः । एवं संक्रमोऽपि । तत एतौ साद्यध्रुवौ । जघन्योऽनुभागसंक्रमः पुनः सूक्ष्मैकेन्द्रिये हतप्रभृतानुभागसत्कर्मणि प्राप्यते । प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यः । तत एतावपि साद्यध्रुवौ ॥ ५१ ॥
( उ० ) - सात वेदनीयपञ्चेन्द्रियजातितैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुल घूष्णस्निग्धलक्षणवर्णाद्यकादशकागुरुलधूच्छ्वासपराघातप्रशस्तविहायोगतित्र सदशक निर्माणलक्षणानां षट्त्रिंशत्प्रकृतीनामनुत्कृष्टोऽनुभागसंक्रमस्त्रिविधोनादिध्रुवावभेदात् । तथाहि - एतासां षट्त्रिंशत्प्रकृतीनां स्वस्वबन्धव्यवच्छेदकाले क्षपक उत्कृष्टमनुभागं बनाति, बन्धावलिकात्यये च तं संक्रमयितुमारभते । तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः । ततः क्षपकसयोगिकेवलिवर्जस्य सर्वस्यानुत्कृष्ट एवासामनुभागः संक्रामति । स चानादि, आदेरभावात् । ध्रुवा ध्रुवावभव्यभव्यापेक्षया । अथशब्दस्तथार्थे, नवकस्योद्योतवर्षभनाराच संहननौदारिकसप्तकलक्षणस्यानुत्कृष्टोऽनुभागसंक्रमचतुर्विधः साद्यनादिध्रुवा ध्रुव भेदात् । तथाहि एतासामुद्योतवर्जानामष्टानां प्रकृतीनां सम्यग्दृष्टिदेवोऽत्यन्तविशुद्धपरिणाम उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायामतीतायां तं संक्रमयति । उद्योतनाम्नस्तु सप्तमनरकक्षितेनैरयिको मिध्यादृष्टिः सम्यक्त्वं प्रतिपित्सुरुत्कृष्टमनुभागं बनाति । बन्धावलिकात्यये च तं संक्रमयति जघन्येनान्तर्मुहूर्तम्, उत्कर्षतो द्वे षट्पष्टी सागरोपमाणां यावत् । इह यद्यपि सप्तमनरकपृथिव्यामन्ति मेऽन्तर्मुहूर्तेऽवश्यं मिथ्यात्वं गच्छति, तथाऽप्यग्रेतनभ