________________
कर्म प्रकृतिः
॥८६॥
वेऽन्तर्मुहूर्त्तानन्तरं यः सम्यक्त्वं प्रतिपत्स्यते स इह गृह्यते । ततोऽन्तराले स्तोकं मिथ्यात्वकालमविवक्षितत्वाद् द्वे षट्षष्टी सागरोपमाणामुच्येते । तत उत्कृष्टात् प्रतिपतितस्यानुत्कृष्टः, स च सादिः । तत्स्थानमप्राप्तस्यानादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । एतासां सप्तदशषोडशषट्त्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषविकल्पाः सप्तदशाद्यतिरिक्तानां च शेषप्रकृतीनामशीतिसङ्ख्यानां सर्वेऽपि विकल्पा द्विविकल्पाः - द्विप्रकारा ज्ञातव्याः, साद्यध्रुव भेदात् । तथाहि - सप्तदशानां षोडशानां चोत्कृष्टोऽनुभाग संक्रमो मिध्यादृष्टेरुत्कृष्टसंक्लेशे वर्तमानस्य प्राप्यते, शेषकालं तु तस्याप्यनुत्कृष्ट एवेत्येतौ द्वावपि साद्यध्रुवौ । जघन्यस्तु भावित एव । तथा षट्त्रिंशत्प्रकृतीनां नवकस्य च जघन्योऽनुभागसंक्रमः सूक्ष्मैकेन्द्रियस्य हतप्रभूतानुभागसत्कर्मणः प्राप्यते, प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्य | इत्येतौ साद्यभ्रुवौ । उत्कृष्टस्तु भावित एव । शेषाणां प्रकृतीनां संज्ञिपञ्चेन्द्रियपर्याप्ते शुभानां वैक्रिय सप्तकदेवद्विको चैर्गोत्रातपतीर्थकराहारकसप्तकमनुजद्विकनरसुरतिर्यगायुर्लक्षणानां चतुर्विंशतिसङ्ख्यानां विशुद्धौ अशुभानां च स्त्यानर्द्धित्रिकासात वेदनीयदर्शनमोहनीयत्रयाप्रत्याख्यानप्रत्याख्यानावरणकषायनरकायुर्नरक द्वि कतिर्यग्द्विकाद्यजातिचतुष्टयानाद्य संस्थान संहनना शुभवर्णादि नवकाप्रशस्तविहायो गत्युपघातस्थावरद शकनीचैगोत्ररूपाणां पदपंचाशत्सङ्ख्यानां संक्लेशे उत्कृष्टोऽनुभागबन्धो लभ्यते, तथाविधविशुद्धिसंक्लेशाभावे त्वनुत्कृष्टः । तथैव संक्रमावप्युत्कृष्टानुत्कृष्टाविति साद्यध्रुवावेतौ । जघन्यानुभागसंक्रमस्तु सूक्ष्मैकेन्द्रिये हतप्रभृतानुभाग सत्कर्मणि लभ्यते । प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यस्तत एतावपि साद्यध्रुवौ ।। ५१ ।।
sak
संक्रमकरणे
अनुभागसंक्रमः ।
॥ ८६ ॥