SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ लिचरमसमयः । ततः क्षपकसयोगिकेवलिवर्जस्य शेषस्यानुत्कृष्ट एवानुभाग एतासां संक्रामति, तस्य चादिर्न विद्यत इत्यनादिः । ध्रुवाकर्मप्रकृतिः ध्रुवौ अभव्यभव्यापेक्षया । 'अह' इत्यादि । अथशब्दस्तथार्थे । नवकस्य-उद्योतवज्रर्षभनाराचसंहननौदारिकसप्तकलक्षणस्यानुत्कृष्टोनुभाग-3 संक्रमकरणे | संक्रमश्चतुर्विधः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-एतेषामुद्योतवर्जानामष्टानां कर्मणां सम्यग्दृष्टिदेवोऽत्यन्तविशुद्धपरिणाम | ॥८५|| अनुभाग संक्रमः। उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायामतीतायां संक्रमयति । उद्योतनाम्नः पुनः सप्तमनरकपृथिव्यां वर्तमानो नैरयिको मिथ्याष्टिः | सम्यक्त्वं प्रतिपत्तुकाम उत्कृष्टमनुभागबन्धं करोति । ततो बन्धावलिकायामतीतायां संक्रमयति । तं च जघन्येनान्तर्मुहूर्तमुत्कर्षतो द्वे षषष्टी सागरोपमाणां यावत् । इह यद्यपि सप्तमनरकपृथिव्यां चरमेऽन्तर्मुहूर्तेऽवश्यं मिथ्यात्वं गच्छति तथाप्यतने भवेऽन्तर्मुहुर्तानन्तरं | यः सम्यक्त्वं प्रतिपद्यते स इह गृह्यते । ततोऽपान्तराले स्तोको मिथ्यात्वकालो भवन्नपि चिरंतनग्रन्थेषु न विवक्षित इत्यस्माभिरपि द्वे षषष्टी सागरोपमाणां यावदित्युक्तम् । तत उत्कृष्टात्प्रतिपतितस्यानुत्कृष्टः । स च सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवाव| भव्यभव्यापेक्षया । 'एयासिं' इत्यादि । एतासां सप्तदशषोडशपत्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषा विकल्पाः, उक्तसप्तदशादिव्यतिरि क्तानां च शेषप्रकृतीनामशीतिसंख्यानां सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्या 'द्विविकल्पाः'-द्विप्रकारा ज्ञातव्याः, तद्यथा सादयोऽध्रुवाश्च । | तथाहि-सप्तदशानां पोडशानां चोत्कृष्टोऽनुभागसंक्रमो मिथ्यादृष्टरुत्कृष्ट संक्लेशे वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्ट एव । । (3 अत एव तौ द्वावपि साद्यधुवौ । जघन्यो भावित एव । तथा पत्रिंशत्प्रकृतीनां नवकस्य च जघन्योऽनुभागसंक्रमः सूक्ष्मैकेन्द्रिये हत ॥८५॥ प्रभृतानुभागसत्कर्मणि प्राप्यते । प्रभृतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यस्तत एतौ साद्यधुवौ । उत्कृष्टो भावित एव । शेषाणां प्रकृतीनां संज्ञिनि पश्चन्द्रिये पर्याप्त शुभानां वैक्रियसप्तकदेवद्विकोचैर्गोत्रातपतीर्थकराहारकसप्तकमनुजद्विकनरकायुर्वजशेषायुस्त्र-1 DDODARSHOROSCGs
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy